This page has been fully proofread once and needs a second look.

नारायणीये
 
मायाक्षोभेषु वैभीषणवचनहृतस्तम्भन :नः कुम्भकर्
 
*
 
णं
सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥ ६ ॥

 
गृह्णन् जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन्
[^*]
ब्रह्म।मास्त्रेणास्य भिन्दन् गलततिमलामग्निशुद्धां प्रगृह्णन् ।

देव ! श्रेणीवरोज्जीवितसमर मृतैरक्षतैर्ऋक्षसङ्घै-

र्लङ्काभत्रर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ ७ ॥
 
१४६
 
[स्कन्धः -९
 

 
गृह्णन्निति । श्रेणीवरैर्हनुमदादिभिरुज्जीविताः समरमृता येषु ऋक्षसङ्खेघेषु।

देवश्रेणीनां वरैरुज्जीविता इति वा ॥ ७ ॥
 

 
प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसी-

र्
मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः ।

शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शुद्रपाशं

ताद् वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥ ८ ॥

 
प्रीत इति । अर्दयित्वा घातयित्वा स्वयमेव शूद्रपाशं कुत्सितं शूद्रमुनिं
प्रा

प्रार्द
यः ॥ ८ ॥
 

 
वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे
 

सीतां त्वय्यानु<flag>प्तु</flag>कामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः ।

हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः

साकं नाकं प्रयातो निजपद्मगमो देव! वैकुण्ठमाद्यम् ॥ ९ ॥
 

 
वाल्मीकेरिति । त्वत्सुताभ्यां कुशलवाभ्यामुद्गापिता मथुधुरा कृती रामा-

यणं काव्यं येन स तथा । कालार्थितो यमधर्मराजेन स्वर्गारोहणाय याचितोऽभूः ।

हेतोः सौमित्रिघातीति । अयमर्थः - -रहस्संवादिनोरावयोर्द्रष्टारं त्य(क्ष्ये?क्ष्यामि)

इति धर्मराजस्य पुरतः कृतप्रतिज्ञो रामस्तदन्तरा प्राप्तं सौमित्रिं प्रतिज्ञाभङ्गभयात्

तत्याजेति । अथ स्वयं निश्शेषैर्देवांशैः पौरैश्च साकं नाकं स्वर्गं ततश्च

निजपदं वैकुण्ठम् । आद्यं ब्रह्माण्डोत्पत्तेः प्रागपि विद्यमानम् ॥ ९ ॥
 

 
[^
*] युध्यन्नित्यनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वात् ।