This page has not been fully proofread.

दशकम् – ३५]
 
श्रीरामचरितवर्णनम् ।
 
सन्देशं चाङ्गुलीयं पवनसुतकरे प्रादिशो मोदशाली
 
मार्गे मार्गे ममार्गे कपिभिरपि तदा त्वत्प्रिया सप्रयासैः ॥ २ ॥
 
१४५
 
सुग्रीवेणेति । अनुजस्य लक्ष्मणस्योक्त्या सुग्रीवेण सहाभियतौभिगच्छता ।
ऋक्षाणां वाहिनीम् । ममार्गे अन्विष्टा ॥ २ ॥
 
त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य-
प्रोत्तीर्णार्णाधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयम् ।
प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं
दृष्ट्वा प्लष्ट्वा च लङ्कां झटिति स हनुमान् मौलिरत्नं ददौ ते ॥ ३ ॥
 
त्वदिति । रामायणकर्णनेन सञ्जातपक्षस्य उरुजवसम्पातिन उपर्युड्डीय
सीतां दृष्टवतः सम्पातेर्वाक्येन । प्रक्षुद्य चूर्णांकृत्य । अक्षक्षपणेनाक्षकुमारवधेन
प्रसिद्धो रणो यस्य । सोढः शापस्मरणान्मर्षितो बन्धो येन ॥ ३ ॥
 
त्वं
 
सुग्रीवाङ्गदादिप्रबलकपिचमूचऋविक्रान्तभूमी-
चक्रोऽभिक्रम्य पारेजलधि निशिचरेन्द्रानुजाश्रीयमाणः ।
तत्प्रोक्तां शत्रुवार्ती रहसि निशमयन् प्रार्थनापार्थ्यरोष-
प्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिरा लब्धवान् मध्यमार्गम् ॥ ४ ॥
 
त्वमिति । पारेजलधि जलधेः पारे । प्रार्थनाया आपार्थ्यं वैफल्यम् ।
प्रास्तस्य प्रक्षिप्तस्य ॥ ४ ॥
 
की शैराशान्त रोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो
यातून्यामद्ये दंष्ट्रानखशिखरिशिलासालशस्खैः स्वसैन्यैः ।
व्याकुर्वन् सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा
वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥ ५॥
कीशैरिति । व्याकुर्वन् प्रकाशयन् ॥ ५ ॥
सौमित्रिस्त्वत्र शक्तिप्रद्दृतिगलदसुर्वातजानीतशैल-
घ्राणात् प्राणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् ।
१. 'तामभिगच्छताम्' क. ग. पाठः २. 'णानुक' ख. पाठः,