This page has not been fully proofread.

॥ श्रीः ॥
श्रीनारायणभट्टकृतं
 
नारायणीयं
 
देशमङ्गलवार्यकृतया भक्तप्रियाख्यया व्याख्यया संवलितम् ।
 
गजाननं गिरां देवीं व्यासं कंसहनं गुरुन् ।
भूतेशमीशमाशासितार्थदान् प्रणमाम्यहम् ॥
 
श्रीमद्भागवतार्थसङ्गहमयं नारायणीयाह्वयं
 
स्तोत्रं हृद्यमनर्घमुज्ज्वलतरं ध्वस्तान्धकारोदयम् ।
यत् कण्ठेषु सतामनुत्तमगुणं प्रत्यग्रमुद्भासते
 
तस्येयं क्रियते यथामति मया व्याख्या हि भक्तप्रिया ॥
 
कीर्तनं भगवत्कीर्तमत्कृतावानुषङ्गिकम् ।.
 
इत्येव प्रयते नास्मद्व्याख्यातृत्वप्रसिद्धये ॥
 
२.
 
इह खलु समधिगतनिखिलनिगमार्थसतत्त्वतया, शाब्दपरब्रह्मपारावारपारी-
णतया, परमभागवततया च सकलसहृदयमहितयशाः श्रीनारायणकविः परमका-
रुणिकतया भक्तानुग्रहाय श्रीभागवतार्थानुसारि नारायणीयाभिधं स्तोत्ररत्नं चि-
कीर्षुः प्रथमं प्रथमश्लोकेन प्रारिप्सितस्य स्तोत्रस्याविनेन परिसमाप्तिप्रचयगमनाभ्यां
श्रोतृजनसॅकलसमीहितसिद्धये च स्तोत्रप्रतिपाद्यजगत्सर्गविसर्गादिदशलक्षणलीला-
निदानभूतपरत्तत्त्वानुस्मरणरूपं मङ्गलमाचरति –
 
सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
 
१. 'णतोऽस्म्य' ख. पाठ: २. 'लहू' ख. पाठ:.
 
'निखिल' ख. पाठः,
 
३- 'धानं स्तो' ख, पाठः,