This page has not been fully proofread.

॥ श्रीः ॥
श्रीनारायणभट्टकृतं
 
नारायणीयं
 
देशमङ्गलवार्यकृतया भक्तप्रियाख्यया व्याख्यया संवलितम् ।
--------------
गजाननं गिरां देवीं व्यासं कंसहनं गुरून् ।
​भूतेशमीशमाशासितार्थदान्​ प्रण[^१]माम्यहम् ॥
 
श्रीमद्भागवतार्थसङ्ग्रहमयं नारायणीयाह्वयं
 
स्तोत्रं हृद्यमनर्घमुज्ज्वलतरं ध्वस्तान्धकारोदयम् ।
यत् कण्ठेषु सतामनुत्तमगुणं प्रत्यग्रमुद्भासते
तस्येयं क्रियते यथामति मया व्याख्या हि भक्तप्रिया ॥
 
कीर्तनं भगवत्कीर्तेर्मत्कृतावानुषङ्गिकम् ।
इत्येव प्रयते नास्मद्व्याख्यातृत्वप्रसिद्धये ।।
 
इह खलु समधिगतनिखिलनिगमार्थसतत्त्वतया, शाब्दपरब्रह्मपारावारपारी-
णतया, परमभागवततया च सकल[^२]सहृदयमहितयशाः श्रीनारायणकविः परमका-
रुणिकतया भक्तानुग्रहाय श्रीभागवतार्थनुसारि नारायणीयाभिधं[^३] स्तोत्ररत्नं चि-
कीर्षुः प्रथमं प्रथमश्लोकेन प्रारिप्सितस्य स्तोत्रस्याविघ्नेन परिसमाप्तिप्रचयगमनाभ्यां
श्रोतृजनस[^४]कलसमीहितसिद्धये च स्तोत्रप्रतिपाद्यजगत्सर्गविसर्गादिदशलक्षणलीला-
निदानभूत​परतत्त्वानुस्मरणरूपं​ मङ्गलमाचरति--
 
सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
 
[^१] 'णतोऽस्मि' ख. पाठ:
[^२] 'लहू' ख. पाठ:.
[^३] 'धानं स्नो' ख. पाठः.
[^४] 'निखिल' स्व. पाठः.