This page has not been fully proofread.

॥ श्रीः ॥
श्रीनारायणभट्टकृतं
 
नारायणीयं
 
देशमङ्गलवार्यकृतया भक्तप्रियाख्यया व्याख्यया संवलितम् ।
 
गजाननं गिरां देवीं व्यासं कंसहनं गुरुरून् ।
भूतेशमीशमाशासितार्थथार्तदान् प्रण​ प्रणेमाम्यहम् ॥
 
श्रीमद्भागवतार्थसङ्गहमयं नारायणीयाह्वयं
 
स्तोत्रं हृद्यमनर्मुज्ज्वलतरं ध्वस्तान्धकारोदयम् ।
यत् कण्ठेषु सतामनुत्तमगुणं प्रत्यग्रमुद्भ्रभासते

तस्येयं क्रियते यथामति मया व्याख्या हि भक्तप्रिया ॥
 
कीर्तनं भगवत्कीर्तेर्मत्कृतावानुषङ्गिकम् ।.

इत्येव प्रयते नास्मद्व्याख्यातृत्वप्रसिद्धये
 
२.
।।
 
इह खलु समधिगतनिखिलनिगमार्थसतत्त्वतया, शाब्दपरब्रह्मपारावारपारी-
णतया, परमभागवततया च सकलसहृदयमहितयशाः श्रीनारायणकविः परमका-
रुणिकतया भक्तानुग्रहाय श्रीभागवतार्थनुसारि नारायणीयाभिधं स्तोत्ररत्नं चि-
कीर्षुषुः प्रथमं प्रथमश्लोकेन प्रारिप्सितस्य स्तोत्रस्याविघ्नेन परिसमाप्तिप्रचयगमनाभ्यायां
श्रोतृजनसॅकलसमीहितसिद्धये च स्तोत्रप्रतिपाद्यजगत्सर्गविसर्गादिदशलक्षणलीला-
निदानभूतपरत्तत्त्वानुस्मरणरूपं मङ्गलमाचरति –
 
सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
 
१. 'णतोऽस्मि' ख. पाठ: २. 'लहू' ख. पाठ:.
 
'निखिल' ख. पाठः,
 
३- 'धानं स्नो' ख, पाठः,