This page has not been fully proofread.

॥ श्रीः ॥

श्रीनारायणभट्टकृतं
 

 
नारायणीयं
 

 
देशमङ्गलवार्यकृतया भक्तप्रियाख्यया व्याख्यया संवलितम् ।
 

 
गजाननं गिरां देवीं व्यासं कंसहनं गुरुन् ।

भूतेशमीशमाशासितार्थदान् प्रणमाम्यहम् ॥
 

 
श्रीमद्भागवतार्थसङ्गहमयं नारायणीयाह्वयं
 

 
स्तोत्रं हृद्यमनर्मुज्ज्वलतरं ध्वस्तान्धकारोदयम् ।

यत् कण्ठेषु सतामनुत्तमगुणं प्रत्यग्रमुद्भाभ्रसते
 

 
तस्येयं क्रियते यथामति मया व्याख्या हि भक्तप्रिया ॥
 

 
कीर्तनं भगवत्कीर्तमत्कृतावानुषङ्गिकम् ।.
 

 
इत्येव प्रयते नास्मद्व्याख्यातृत्वप्रसिद्धये ॥
 

 
२.
 

 
इह खलु समधिगतनिखिलनिगमार्थसतत्त्वतया, शाब्दपरब्रह्मपारावारपारी-

णतया, परमभागवततया च सकलसहृदयमहितयशाः श्रीनारायणकविः परमका-

रुणिकतया भक्तानुग्रहाय श्रीभागवतार्थानुसारि नारायणीयाभिधं स्तोत्ररत्नं चि-

कीर्षुःषु प्रथमं प्रथमश्लोकेन प्रारिप्सितस्य स्तोत्रस्याविनेन परिसमाप्तिप्रचयगमनाभ्यां
या
श्रोतृजनसॅकलसमीहितसिद्धये च स्तोत्रप्रतिपाद्यजगत्सर्गविसर्गादिदशलक्षणलीला-

निदानभूतपरत्तत्त्वानुस्मरणरूपं मङ्गलमाचरति –
 

 
सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां

निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
 

 
१. 'णतोऽस्म्यमि' ख. पाठ: २. 'लहू' ख. पाठ:.
 

 
'निखिल' ख. पाठः,
 

 
३- 'धानं स्तोनो' ख, पाठः,