2023-02-16 08:52:20 by ambuda-bot
This page has not been fully proofread.
नारायणीये
प्राप्तायाः शूर्पणख्या मदनचलघृतेरनैर्निस्सहात्मा
तां सौमित्रौ विसृज्य प्रवलतमरुपा तेन निलूननासाम् ।
दृष्दैनां रुष्टचित्तां खरमभिपतितं दूषणं च त्रिमूर्ध
व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥ ८ ॥
सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया-
सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधी र्वाणघातम् ।
तन्मायाक्रन्दनिर्यापितभवढनुजां रावणस्तामहार्षीत्
तेनार्तोऽपि त्वमन्तः किमपि मुमधास्तद्वधोपायलाभात् ॥ ९ ॥
सोदर्येति । तेन सीताविरहेण बहिरात इति सिध्यति, अन्तः किमपि
मुदमधा इत्युक्तेः । अनेन च स्त्रीवचनं प्रमाणीकुर्वतामेवं दुःखमिति ग्राहयितुमे-
तदित्यपि सूचितम् ॥ ९ ॥
१४४
[स्कन्धः-९
भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्धेने-
त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् ।
गृह्णानं तं कवन्धं जघनिथ शवरीं प्रेक्ष्य पम्पातटे त्वं
सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ! ॥ १० ॥
इति श्रीरामचरिते पम्पासरसि हनुमत्समागमवर्णनं
चतुत्रिंशं दशकम् ।
नीतः सुग्रीवमैत्री तदनु हनुमता दुन्दुभेः कायमुच्चैः
क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत् पत्रिणा सप्त सालान् ।
हत्वा सुग्रीवधातोद्यतमतुलवलं वालिनं व्याजवृत्या
वर्षावेलामनैपीर्विरहतरलितस्त्वं मतङ्गाश्रमान्ते ॥ १ ॥
सुग्रीवेणानुजोक्त्या सभयमभियतां व्यूहितां वाहिनीं ता-
मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् ।
१. 'तां' क. ग. पाठ:.
* 'करणे हन:' (३-४-३७) इति णमुल् ।