2023-02-16 08:52:20 by ambuda-bot
This page has not been fully proofread.
दशकम् - ३४]
श्रीरामचरितवर्णनम् ।
भार्गवरामजयः तेन स्वतेजसः श्रीरामे समर्पणमपि रामावतारस्येतरावताराद्
विशिष्टत्वमवगमयतीत्याह --
१४३
आरुन्धाने रुपान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो
याते यातोऽस्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते ! ।
शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं
तातारब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥ ४ ॥
एवमवतारमुपपाद्यास्य लोकसंग्रहणार्थमङ्गीकृतं चरितं स्तौति –
तातोक्त्या यातुकामो वनमनुजवधूसंयुतचापधारः
पौरानाध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी ।
नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा-
नत्वा तद्वाक्यहेतोरतिसुखमवसचित्रकूटे गिरीन्द्रे ॥ ५ ॥
तातोक्त्येति । तातोक्त्यैव राज्यश्रियमपहाय जटाचीरधारी त्वं चित्रकूटे
सुखमवसः । एवं गुरुवचन परैर्भवितव्यमिति लोकान् ग्राहयितुमेतदिति भावः ॥ ५ ॥
श्रुत्वा पुत्रातिखिन्नं खलु भरतमुखात् स्वर्गयात स्वतातं
तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च ।
अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं
हत्वा दैत्यं विराधं सुगतिमकलयवारु भो ! शारभङ्गीम् ॥ ६ ॥
श्रुत्वेति । शारभङ्ग शरभङ्ग सम्बन्धिनीं सुगतिं मोक्षम् ॥ ६ ॥
नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः
प्रत्यश्रौषी: प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ।
ब्रह्मास्त्रे चापि दत्ते पथि पितृसुदृढं वीक्ष्य भूयो जटायुं
मोदाइ गोढ़ातटान्ते परिरमसि पुरा पञ्चवट्यां वधूया ॥ ७ ॥
नत्वेति । समस्ताशरनिकरसपत्राकृतिं सर्वराक्षसवधं प्रत्यश्रौषीः प्रतिज्ञा-
तवान् । गोदा गोदावरी । परिरमसि पुरा स्वैरं न्यवसः ॥ ७ ॥
१. 'न्धे किल भृगुति' घ. पाठः.