This page has been fully proofread once and needs a second look.

दशकम् - ३४]
 
श्रीरामचरितवर्णनम् ।
 
भार्गवरामजयः तेन स्वतेजसः श्रीरामे समर्पणमपि रामावतारस्येतरावताराद्

विशिष्टत्वमवगमयतीत्याह --
 
१४३
 

 
आरुन्धाने रुपान्षान्[^१]धे भृगुकुलतिलके संक्रमय्य स्वतेजो
 

याते यातोऽस्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते ! ।

शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं

तातारब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥ ४ ॥
 

 
एवमवतारमुपपाद्यास्य लोकसंग्रहणार्थमङ्गीकृतं चरितं स्तौति
--
 
तातोक्त्या यातुकामो वनमनुजवधूसंयुतचापधारः
 

पौरानाध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी ।

नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा-

नत्वा तद्वाक्यहेतोरतिसुखमवसचित्रकूटे गिरीन्द्रे ॥ ५ ॥

 
तातोक्त्येति । तातोक्त्यैव राज्यश्रियमपहाय जटाचीरधारी त्वं चित्रकूटे

सुखमवसः । एवं गुरुवचन परैर्भवितव्यमिति लोकान् ग्राहयितुमेतदिति भावः ॥ ५ ॥

 
श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयात स्वतातं
स्वतातं
तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च ।

अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं

हत्वा दैत्यं विराधं सुगतिमकलयवाश्चारु भोभोः ! शारभङ्गीम् ॥ ६ ॥

 
श्रुत्वेति । शारभङ्गीं शरभङ्ग सम्बन्धिनीं सुगतिं मोक्षम् ॥ ६ ॥

 
नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः
 

प्रत्यश्रौषी: प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ।

ब्रह्मास्त्रे चापि दत्ते पथि पितृसुदृढंहृदं वीक्ष्य भूयो जटायुं

मोदाद् गोढ़ादातटान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या ॥ ७ ॥

 
नत्वेति । समस्ताशरनिकरसपत्राकृतिं सर्वराक्षसवधं प्रत्यश्रौषीः प्रतिज्ञा-

तवान् । गोदा गोदावरी । परिरमसि पुरा स्वैरं न्यवसः ॥ ७ ॥
 

 
[^
]. 'न्धे किल भृगुति' घ. पाठः.