This page has not been fully proofread.

१४२
 
नारायणीये
 
भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्
सायुज्यमाप च स मां पवनेश! पायाः ॥ १० ॥
 
राजेति । राजा एकसमामेकसंवत्सरमनाश्चान् अनश्नन्नव्भक्षो भूत्वा मुनिं
प्रतीक्ष्य प्रतिपाल्य साधु सम्भोज्य तच्छेषं स्वयं भुक्त्वा विसृजन्ननुज्ञाय ततोऽपि
पूर्वस्मादपि त्वयि रतो भक्तोऽभूत् । अन्ते सायुज्यं मोक्षं चाप ॥ १० ॥
इत्यम्बरीषचरितवर्णनं त्रयस्त्रिंशं दशकम् ।
 
[स्कन्धः - ९
 
अथ श्रीरामचरितं प्रस्तौति
गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे
पुत्रीयामिष्टिमिटा ददुषि दशरथक्ष्माभृते पायसाग्रयम् ।
तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो
रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥ १ ॥
त्वं श्रीहरिरेव रामो जात इत्युक्तम् । तदुपपादयति -
कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो
यांतोऽभूस्तातवाचा मुनिकथित मनुद्वन्द्वशान्ताध्वखेदः ।
नृणां त्राणाय वाणैर्मुनिवचनबलात् ताटकां पाटयित्वा
लब्ध्वास्मादखजालं मुनिवनमगमो देव! सिद्धाश्रमाख्यम् ॥ २ ॥
कोदण्डीति । बाल्य एव दुष्ट निग्रह शिष्टपरिपालनसज्जन बहुमानादिः केव-
लमनुष्यसम्बन्धी न भवतीति भावः ॥ २ ॥
 
अपिच, मुनिपत्न्याः शापमोक्षो महेश्वरचापखण्डनादि चास्य विष्ण्वंशत्वं
प्रकटयतीत्याह-
मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्
कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् ।
भिन्दानश्चान्द्रचूडं धनुरंवनिसुतामिन्दिरामेव लब्ध्वा
 
राज्यं प्रतिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥ ३ ॥
 
१. 'थ' क. पाठः २. 'म' क. ख. पाठः.