This page has been fully proofread once and needs a second look.

१४२
 
नारायणीये
 
भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्

सायुज्यमाप च स मां पवनेश! पायाः ॥ १० ॥
 

 
राजेति । राजा एकसमामेकसंवत्सरमनाश्चावान् अनश्नन्नव्ब्भक्षो भूत्वा मुनिं

प्रतीक्ष्य प्रतिपाल्य साधु सम्भोज्य तच्छेषं स्वयं भुक्त्वा विसृजन्ननुज्ञाय ततोऽपि

पूर्वस्मादपि त्वयि रतो भक्तोऽभूत् । अन्ते सायुज्यं मोक्षं चाप ॥ १० ॥

 
इत्यम्बरीषचरितवर्णनं त्रयस्त्रिंशं दशकम् ।
 
[स्कन्धः - ९
 

 
अथ श्रीरामचरितं प्रस्तौति
--
 
गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे

पुत्रीयामिष्टिमिटाष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् ।

तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो

रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि[^१] शत्रुघ्ननाम्ना ॥ १ ॥

 
त्वं श्रीहरिरेव रामो जात इत्युक्तम् । तदुपपादयति -
-
 
कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो
यां

या
तोऽभूस्तातवाचा मुनिकथित मनुद्वन्द्वशान्ताध्वखेदः ।
नृ

नॄ
णां त्राणाय वाणैर्मुनिवचनबलात् ताटकां पाटयित्वा

लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव! सिद्धाश्रमाख्यम् ॥ २ ॥

 
कोदण्डीति । बाल्य एव दुष्ट निग्रह शिष्टपरिपालनसज्जन बहुमानादिः केव-

लमनुष्यसम्बन्धी न भवतीति भावः ॥ २ ॥
 

 
अपिच, मुनिपत्न्याः शापमोक्षो महेश्वरचापखण्डनादि चास्य विष्ण्वंशत्वं

प्रकटयतीत्याह-
-
 
मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्

कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् ।

भिन्दानश्चान्द्रचूडं धनुरंर[^२]वनिसुतामिन्दिरामेव लब्ध्वा
 

राज्यं प्रतिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥ ३ ॥
 

 
[^
]. 'थ' क. पाठः
[^
]. 'म' क. ख. पाठः.