This page has not been fully proofread.

दशकम् - ३३]
 
-
 
अम्बरीषचरितवर्णनम् ।
 
धावन्नशेषभुवनेषु भिया स पश्यन्
 
विश्वत्र चक्रमपि ते गतवान् विरिञ्चम् ।
कः कालचक्रमतिलङ्घयतीत्यपास्तः
शर्वे ययौ स च भवन्तमवन्दतैव ॥ ७ ॥
 
धावन्निति । स विश्वत्र सर्वत्रापि ते चक्रं पश्यन् विरिञ्चं शरणं गतवान् ।
कः कालचक्रमतिलङ्घयतीति तद्वचनादपास्तः प्रतिनिवृत्तः शर्व शिवं प्राप्तवान् ।
यस्य चक्रमिदं, तमेव हरिं शरणं व्रजेत्यभिप्रायेण स भवन्तमवन्दतैव ॥ ७॥
 
भूयो भवन्निलयमेत्य मुनिं नमन्तं
 
प्रोचे भवानहमृषे ! ननु भक्तदासः ।
ज्ञानं तपश्च विनयान्वितमेव मान्यं
 
याह्यम्बरीषपदमेव भजेति भूमन् ! ॥ ८ ॥
 
१४१
 
भूय इति । भवन्निलयं वैकुण्ठम् । अहं भक्तानां दास इव, तदधीनत्वात् ।
नन्वहमपि ज्ञानतपोनिष्ठत्वात् त्वद्भक्त एव । सत्यम् । ज्ञानं तपश्च यदि विनयेनो-
पशमेन युक्तं भवति, तर्ह्येव मान्यं निःश्रेयसाय भवति । दुर्विनीतस्यैतद् द्वयमपि
न सुखाय, यथा भवतः । तदम्बरीषस्य पदं पादावेव शरणं भज व्रज ॥ ८ ॥
 
तावत् समेत्य मुनिना स गृहीतपादो
राजापसृत्य भवदस्मसाव (नौषी नावी)त् ।
चक्रे गते मुनिरदादखिलाशिषोऽस्मै
 
त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥ ९ ॥
 
तावदिति । सोऽम्बरीषः पादस्पर्शलज्जया अपसृत्य भवदस्त्रं सुदर्शनमनौ-
षीत् तुष्टाव । चक्रे गते शान्ते सति आगसि कृत्योत्पादनापराधे कृतेऽपि स्ववि-
षयामम्बरीषस्य कृपां शंसन् स्तुवन् अस्मा आशिषो वरान् ॥ ९ ॥
 
राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान्
सम्भोज्य साधु तमृषिं विसृजन् प्रसन्नम् ।