This page has not been fully proofread.

१४०
 
नारायणीये
 
[स्कन्धः - ९
 
स इति । अथो अनन्तरं सोऽम्बरीपो भवदर्चनार्थं वर्षं संवत्सरं द्वादशीव्रतं
दधौ । यमुनोपकण्ठे यमुनाया उपकण्ठे तीरे सुमनसा भक्तियुक्तया महतीं सर्वो-
पहारमहाभिषेकयुक्तां पूजां वितन्वन् । विसृजन् ददत् ॥ ३ ॥
 
तत्राथ पारणदिने भवदर्चनान्ते
दुर्वाससास्य मुनिना भवनं प्रपेदे ।
भोक्तुं वृतश्च स नृपेण परातिंशीलो
 
मन्दं जगाम यमुनां नियमान् विधास्यन् ॥ ४ ॥
 
तत्रेति । भवदर्चनस्यान्तेऽवसाने । पारणदिन इत्यवसानदिने विप्रान्
भोजयित्वा स्वयं भोक्तुकामे सतीत्यर्थः । श्रीदुर्वाससा मुनिनास्य भवनं प्रपेदे
प्रापद्यत । परार्तिशील: परपीडानिरतः । अतः पारणकालातिक्रम एव नियमान्
विधायागमिष्यामीति मन्दं जगाम ॥ ४ ॥
 
राज्ञस्तत्सङ्कटमाह
 
राज्ञाथ पारणमुहूर्तसमाप्तिखेदाद्
वाव पारणमकारि भवत्परेण ।
प्राप्तो मुनिस्तथ दिव्यदृशा विजानन्
 
क्षिप्यन् क्रुधोवृतजो विततान कृत्याम् ॥ ५ ॥
 
राज्ञेति । पारणमुहूर्तस्य समाप्तिर्भविष्यति प्रतिपालने, अप्रतिपालने च
मुनिकोपः स्यादिति खेदाद् वारा जलेनैव पारणमकारि । तत् पारणं विजानन्
क्षिप्यन् बह्वाक्षेपवादान् कुर्वन् क्रुधोद्घृतजटः जटया कृत्यां विततान ॥ ५ ॥
कृत्यां च तामसिधरां भुवनं दहन्ती-
मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे ।
त्वद्भक्तवाघमभिवीक्ष्य सुदर्शनं ते
 
कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥ ६ ॥
 
कृत्यामिति । ते सुदर्शनं त्वद्भक्तस्य बाधं पीडाम् । कृत्यानलं शलभयद्
अनलपतितशलभमिव कुर्वद् मुनिमन्वधावीद् धावतो मुनेः पृष्ठतो धावन-
मकरोत् ॥ ६ ॥