This page has not been fully proofread.

अथ नवमस्कन्धपरिच्छेदः ।
 
वर्णिते रामचरिते किमन्यैश्चरितैरित ।
तप्रधानेशानुकथा लक्ष्यते नवमोदिता ॥
 
अथाम्बरीषचरितमुपक्रमते-
वैवस्वताख्यमनुपुत्रनभागजात-
नाभागनामकनरेन्द्रसुतोऽम्बरीषः ।
सप्तार्णवावृतमहीदयितोऽपि रेमे
त्वत्सनिषु त्वयि च मनमनाः सदैव ॥ १ ॥
 
वैवस्वतेति । ब्रह्मणः पुत्रो मरीचिः, तत्पुत्रः काश्यपः, तलुत्रो विवस्वान्,
तत्पुत्रः श्राद्धदेवोऽयं वैवस्वताख्यमनुः, तत्पुत्रो नभागः, तत्पुत्रो नाभागः, तस्य
पुत्रोऽम्बरीषः, स सप्तार्णवावृतायाः सप्तद्वीपवत्या दयितः सार्वभौमोऽपि त्वयि ईश्वरे
त्वत्सङ्गिषु त्वद्भक्तेषु च रेमे ॥ १ ॥
 
त्वत्प्रीतये सकलमेव वितन्वतोऽस्य
 
भक्त्यैव देव ! नचिराद्भृथाः प्रसादम् ।
येनास्य याचनमृतेऽप्यभिरक्षणार्थं
 
चक्रं भवान् प्रविततार सहस्रधारम् ॥ २ ॥
 
त्वदिति । सकलं लौकिकं वैदिकं च कर्म त्वत्प्रीतये वितन्वतः कुर्वतोऽस्य
भक्त्यैव त्वं नचिरादल्पेन कालेन प्रसादमभृथाः, येन प्रसादेनास्याभिरक्षणार्थं शत्रु-
निवारणार्थं भवान् चक्रं सुदर्शनं प्रविततार दत्तवान् ॥ २ ॥
 
स द्वादशीव्रतमथो भवदर्चनार्थ
 
वर्ष दधौ मधुवने यमुनोपकण्ठे ।
पत्न्या समं सुमनसा महतीं वितन्वन्
 
पूजां द्विजेषु विसृजन पशुषष्टिकोटिम् ॥ ३ ॥
 
१. ' षु परेषु च' ग. पाठ: