This page has been fully proofread once and needs a second look.

अथ नवमस्कन्धपरिच्छेदः ।
 

 
वर्णिते रामचरिते किमन्यैश्चरितैरिति

तत्
प्रधानेशानुकथा लक्ष्यते नवमोदिता ॥
 

 
अथाम्बरीषचरितमुपक्रमते-
-
 
वैवस्वताख्यमनुपुत्रनभागजात-

नाभागनामकनरेन्द्रसुतोऽम्बरीषः ।

सप्तार्णवावृतमहीदयितोऽपि रेमे
त्वत्सनि

त्वत्सङ्गि
षु त्वयि च मग्नमनाः सदैव ॥ १ ॥
 

 
वैवस्वतेति । ब्रह्मणः पुत्रो मरीचिः, तत्पुत्रः काश्यपः, तलुत्पुत्रो विवस्वान्,

तत्पुत्रः श्राद्धदेवोऽयं वैवस्वताख्यमनुः, तत्पुत्रो नभागः, तत्पुत्रो नाभागः, तस्य

पुत्रोऽम्बरीषः, स सप्तार्णवावृतायाः सप्तद्वीपवत्या दयितः सार्वभौमोऽपि त्वयि ईश्वरे

त्वत्सङ्गिषु त्वद्भक्तेषु[^१] च रेमे ॥ १ ॥
 

 
त्वत्प्रीतये सकलमेव वितन्वतोऽस्य
 

भक्त्यैव देव ! नचिराद्भृथाः प्रसादम् ।

येनास्य याचनमृतेऽप्यभिरक्षणार्थं
 

चक्रं भवान् प्रविततार सहस्रधारम् ॥ २ ॥
 

 
त्वदिति । सकलं लौकिकं वैदिकं च कर्म त्वत्प्रीतये वितन्वतः कुर्वतोऽस्य

भक्त्यैव त्वं नचिरादल्पेन कालेन प्रसादमभृथाः, येन प्रसादेनास्याभिरक्षणार्थं शत्रु-

निवारणार्थं भवान् चक्रं सुदर्शनं प्रविततार दत्तवान् ॥ २ ॥
 

 
स द्वादशीव्रतमथो भवदर्चनार्
 
वर्ष
थं
वर्षं
दधौ मधुवने यमुनोपकण्ठे ।

पत्न्या समं सुमनसा महतीं वितन्वन्
 

पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥ ३ ॥
 

 
[^
]. ' षु परेषु च' ग. पाठ:
 
ठः