This page has not been fully proofread.

नारायणीय
 
आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् ।
संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥ ८ ॥
 
१३८
 
आकृष्टेति । मुनिमण्डलाय सत्यव्रतसप्तर्षिभ्यः । ज्ञानं परं च शास्त्रज्ञानं
ब्रह्मज्ञानं च ॥ ८ ॥
 
[स्कन्धः - ८
 
कल्पावध सप्त मुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपं तम् ।
वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥ ९ ॥
कल्पेति । वैवस्वताख्यमिदानीन्तनम् ॥ ९ ॥
 
स्वगृतवक्षसं तं निपात्य दैत्यं निगमान् गृहत्विा ।
विरिञ्चये प्रीतहृदे दद्वानः प्रभञ्जनागारपते ! प्रपायाः ॥ १० ॥
 
स्वेति । विरिञ्चये ब्रह्मणे ॥ १० ॥ ७९ ॥
 
इति मत्स्यावतारवर्णनं द्वात्रिंशं दशकम् ।
 
इति नारायणीयम्तोत्रव्याख्यायां
 
भक्तप्रियाख्यायाम्
 
अष्टमस्कन्धपरिच्छेदः ।
 
आदितः श्लोकसङ्ख्या ३३४.