This page has been fully proofread once and needs a second look.

नारायणीय
 
आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् ।

संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥ ८ ॥
 
१३८
 

 
आकृष्टेति । मुनिमण्डलाय सत्यव्रतसप्तर्षिभ्यः । ज्ञानं परं च शास्त्रज्ञानं

ब्रह्मज्ञानं च ॥ ८ ॥
 
[स्कन्धः - ८
 

 
कल्पावध सप्त मुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपं तम् ।

वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥ ९ ॥

 
कल्पेति । वैवस्वताख्यमिदानीन्तनम् ॥ ९ ॥
 
स्वगृ

 
स्वतुङ्गशृङ्गक्ष
तवक्षसं तं निपात्य दैत्यं निगमान् गृहत्विा ।
हीत्वा ।
विरिञ्चये प्रीतहृदे दद्वादानः प्रभञ्जनागारपते ! प्रपायाः ॥ १० ॥
 

 
स्वेति । विरिञ्चये ब्रह्मणे ॥ १० ॥ ७९ ॥
 

 
इति मत्स्यावतारवर्णनं द्वात्रिंशं दशकम् ।
 

 
इति नारायणीयम्स्तोत्रव्याख्यायां
 

 
भक्तप्रियाख्यायाम्
 

 
अष्टमस्कन्धपरिच्छेदः ।
 

 
आदितः श्लोकसङ्ख्या ३३४.