This page has been fully proofread once and needs a second look.

दंशकम् - ३२]
 
मत्स्यावतारवर्णनम् ।
 
१३७
 
पुरेति । षष्ठान्तरस्य चाक्षुषमन्वन्तरस्यान्तेऽवसाने उद्यत्युद्भूते अत एवा-

काण्डकल्पेऽवान्तरप्रलये । अघित्सः विधातुमैच्छः ॥ १ ॥
 

 
सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।

कराञ्जलोंलौ स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन वाबालमीनः ॥ २ ॥

 
सत्येति । नद्या कृतमालाया जले ॥ २ ॥
 

 
क्षिप्तं जले त्वां चकितं विलोक्य निन्थेयेऽम्बुपात्रेण मुनिः स्वगेहम् ।

स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो ! त्वम् ॥ ३ ॥

 
क्षिप्तमिति । आनशिषे व्याप्तोऽभूः ॥ ३ ॥
 

 
योगप्रभावाद् भवदाज्ञयैव नीतस्ततस्त्वं सुमुनिना पयोधिम् ।

पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥ ४ ॥
 

 
योगेति । मुनिना राजर्षिणा । योगप्रभावात् तपश्शक्त्या । भवदाज्ञया

महामत्स्यं मामपी[^१]दानीमुदधिजले प्रक्षिपेत्येवंरूपया । कल्पदिक्षुदृक्षुं प्रलयार्णव-

दर्शनोत्सुकम् ॥ ४ ॥
 

 
प्राप्ते त्वदुक्तेऽहनि वारिधारापरिष्लप्लुते भूमितले मुनीन्द्रः ।

सप्तर्षिभिः सार्धमपारवारिण्यद्घूर्णमानः शरणं ययौ त्वाम् ॥ ५ ॥

 
प्राप्त इति । अपारवारिणि प्रलयाब्धौ । उद्घूर्णमानः सम्भ्रान्तः ॥ ५ ॥
 

 
धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते ।

तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥ ६ ॥
 

 
धरामिति । ततस्त्वदादेशकरीं त्वत्प्रेरितां नौरूपिणीं भूमिम् । तेषु सत्य-

व्रतसप्तर्षिषु ॥ ६ ॥
 

 
झषाकृतिं योजनलक्षदीर्घाघां दधानमुच्चैस्तरतेजसं त्वाम् ।

निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणि ववबबन्धुः ॥ ७ ॥

 
झषाकृतिमिति । तरणिणिं नावम् ॥ ७ ॥
 

 
[^
]. 'प्युद' क. पाठ:
 
ठः