This page has not been fully proofread.

१३६
 
नारायणीय
 
[ स्कन्धः - ८
 
हर्षोत्कर्षात् सुबहु ननृते खेचरैरुत्सवेऽस्मिन्
 
भेरीं निघ्नन् भुवनमचरज्जाम्बवान् भक्तिशाली ॥ ७ ॥
 
त्वदिति । निजपदगतं सत्यलोकागतम् ॥ ७ ॥
 
तावद् दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा
देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् ।
कालात्मायं वसति पुरतो यद्वशात् प्राग् जिताः स्मः
किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥ ८ ॥
 
पाशैर्वद्धं पतगपतिना दैत्यमुच्चैरवादी-
स्तार्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि ।
पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं
प्रहादस्तं स्वयमुपगतो मानयन्नस्तवीत् त्वाम् ॥ ९ ॥
 
पाशैरिति । तार्तीयीकं तृतीयम् ॥ ९ ॥
 
दर्पोच्छिन्त्यै विहितमखिलं दैत्य ! सिद्धोऽसि पुण्यै-
र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् ।
मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं
विः सन्तानितमखवरः पाहि वातालयेश ! ॥ १० ॥
 
दर्पेति । विप्रैः सन्तानितः कारितप्रायश्चित्तो मखवरो राजसूयाख्यो
येन ॥ १० ॥
 
इति वामनचरितवर्णनम् एकत्रिंशं दशकम् ।
 
अथ ब्रह्मणे सत्यव्रताय च वेदतदर्थप्रतिपादनाय मात्स्यं वपुर्घृतवतो भगव-
तश्चरितमुपक्रमते-
पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।
निद्रोन्मुखब्रह्ममुखाहृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ १ ॥