This page has been fully proofread once and needs a second look.

१३४
 
नारायणीये
 
धारणं लेभे । तादृङ्महिमेदमित्याह--यदिति ॥ १० ॥
 

 
इति वामनचरिते महालेरातिथ्यवर्णनं त्रिंशं दशकम् ।
 
[स्कन्धः-८
 

 
प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणात् सर्वथापि

त्वामाराध्यन्नजित ! रचयन्नञ्जलिं सञ्जगाद ।

मत्तः किं ते समभिलषितं विप्रसूनो ! वद त्वं
 

वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥ १ ॥
 

 
प्रीत्येति । तनोर्महसश्च प्रेक्षणात् सर्वथा स्वागतवचनादिभिः । भक्तं

मृष्टान्नम् ॥ १ ॥
 

 
तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णा-

ऽप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।

भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं
 
सर्व

सर्वं
देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ २ ॥
 

 
तामिति । अक्षीणां जगदीश्वरत्वख्यापयित्रीं, हे विश्वेश्वर ! सर्वे सर्वस्वं
सर्वस्वं
मे देहीति निगदिते याचिते तद्वचः कस्य वा न हास्यं स्यात् । अतः पदत्रयमेव

याचितवानसि ॥ २ ॥
 

 
विश्वेशं मां त्रिपदमिह किं याचसे वालिशस्त्वं
 
सर्वो

सर्वां
भूमिं वृणु किममुनेत्यालपत् त्वां स दृप्यन् ।

यस्माद् दर्षापात् त्रिपदपरिपूर्त्यक्षमः क्षेपवादान
 

न्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥ ३ ॥
 

 
विश्वेशमिति । स दृप्यन् सर्वोवां भूमिं वृण्वित्यालपत् । दर्पस्य फलमाह-

यस्मादिति । अतदर्हो बन्धनक्षेपवादानर्हः । तर्हि कथं भगवान् बबन्ध । अनुप्ग्र-

हायेत्याह - -गाढेति । सम्यग् विषयविरक्तिमापाद्य स्वस्मिन् मनस्समाधानाये-

त्यर्थः ॥ ३ ॥