This page has not been fully proofread.

दशकम्- ३०]
 
वामनचरितवर्णनम् ।
गात्रेण भाविमहिमोचितगौरवं प्राग्
 
व्यावृण्वतेव धरणीं चलयन्नयासीः ।
छत्रं परोष्मतिरणार्थमिवादधानो
 
दण्डं च दानवजनेष्विव सन्निधातुम् ॥ ७ ॥
 
गात्रेणेति । भाविमहिमा विश्वरूपं, तदुचितं गौरवं प्रागेव धरणीचलनेन
व्यावृण्वता प्रकाशयता । परेषां दैत्यानामूप्मणः पराक्रमस्य तिरणार्थं वारणार्थम् ।
सन्निधातुं दण्डयितुम् ॥ ७ ॥
 
तां नर्मदोत्तरतटे हयमेधशाला-
मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः ।
भास्वान् किमेष दहनो नु सनत्कुमारो
योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥ ८ ॥
 
तामिति । आसेदुषि प्राप्तवति ॥ ८ ॥
 
आनीतमाशु भृगुभिर्महसाभिभूतै-
स्त्वां रम्यरूपमसुर: पुलकावृताङ्गः ।
भक्त्या समेत्य सुकृती परिषिच्य पादौ
तत्तोयमन्वधूत मूर्धनि तीर्थतीर्थम् ॥ ९ ॥
 
१३३
 
आनीतमिति । त्वन्महसाभिभूतैर्त्रष्टतेजस्कैभृगुभिः शुक्रेणानीतं प्रतिगृह्य
बलिनिकटं नीतम् । असुरो बलिः । तीर्थतीर्थं सर्वशोधकम् ॥ ९ ॥
 

 
महादवंशजतया क्रतुभिर्द्विजेषु
 
विश्वासतो नु तदिदं दितिजोऽपि लेभे ।
यत् ते पदाम्बु गिरिशस्य शिरोभिलाल्यं
 
स त्वं विभो ! गुरुपुरालय ! पालयेथाः ॥ १० ॥
 
प्रह्लादेति । भक्तोत्तंसप्रह्लादवंशजतया नु, क्रतुभिर्नु, द्विजेषु विश्वासतः
सत्सङ्गान्नु, समस्तैरेतैर्नु (न) निश्चितं, बलिर्दितिजोऽपि तदिदं पादोदकस्य मूर्ध्नि