This page has been fully proofread once and needs a second look.

दशकम्- ३०]
 
वामनचरितवर्णनम् ।
गात्रेण भाविमहिमोचितगौरवं प्राग्
 

व्यावृण्वतेव धरणीं चलयन्नयासीः ।

छत्रं परोष्मतिरणार्थमिवादधानो
 

दण्डं च दानवजनेष्विव सन्निधातुम् ॥ ७ ॥
 

 
गात्रेणेति । भाविमहिमा विश्वरूपं, तदुचितं गौरवं प्रागेव धरणीचलनेन

व्यावृण्वता प्रकाशयता । परेषां दैत्यानामूप्मणः पराक्रमस्य तिरणार्थं वारणार्थम् ।

सन्निधातुं दण्डयितुम् ॥ ७ ॥
 

 
तां नर्मदोत्तरतटे हयमेधशाला-

मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः ।

भास्वान् किमेष दहनो नु सनत्कुमारो

योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥ ८ ॥
 

 
तामिति । आसेदुषि प्राप्तवति ॥ ८ ॥
 

 
आनीतमाशु भृगुभिर्महसाभिभूतै-

स्त्वां रम्यरूपमसुर: पुलकावृताङ्गः ।

भक्त्या समेत्य सुकृती परिषिच्य पादौ

तत्तोयमन्वधूधृत मूर्धनि तीर्थतीर्थम् ॥ ९ ॥
 
१३३
 

 
आनीतमिति । त्वन्महसाभिभूतैर्त्र<flag>र्त्र</flag>ष्टतेजस्कैर्भृगुभिः शुक्रेणानीतं प्रतिगृह्य

बलिनिकटं नीतम् । असुरो बलिः । तीर्थतीर्थं सर्वशोधकम् ॥ ९ ॥
 

 
महा

 
प्रह्ला
दवंशजतया क्रतुभिर्द्विजेषु
 

विश्वासतो नु तदिदं दितिजोऽपि लेभे ।

यत् ते पदाम्बु गिरिशस्य शिरोभिलाल्यं
 

स त्वं विभो ! गुरुपुरालय ! पालयेथाः ॥ १० ॥
 

 
प्रह्लादेति । भक्तोत्तंसप्रह्लादवंशजतया नु, क्रतुभिर्नु, द्विजेषु विश्वासतः

सत्सङ्गान्नु, समस्तैरेतैर्नु (न) निश्चितं, बलिर्दितिजोऽपि तदिदं पादोदकस्य मूर्ध्नि