This page has not been fully proofread.

नारायणीये
 
[स्कन्धः-८
 
तस्येति । तस्य पयोव्रतस्यावधावन्ते । प्रलपन् त्वं भर्तरूपं मां भाव-
यन्ती भर्तारमुपतिष्ठेत्यादि कथयन् अयासीः तिरोभूः ॥ ३ ॥
 
१३२
 
त्वं काश्यपे तपसि सन्निदधत् तदानीं
प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा ।
प्रामृत च प्रकटवैष्णवदिव्यरूपं
सा द्वादशी श्रवणपुण्यदिने भवन्तम् ॥ ४ ॥
 

 
स्वमिति । काश्यपे काश्यपसम्बन्धिनि तपसि तपः सम्भृते वीर्ये सन्निदधत्
प्रविष्टः । प्रकटवैष्णवदिव्यरूपं शङ्खचक्रगदापद्म किरीटमकुट मकरकुण्डल श्रीवत्स-
कौस्तुभवनमालापीतवसनकाञ्चीनूपुराचुपलक्षितम् ॥ ४ ॥
 
पुण्याश्रमं तमभिवर्षति पुष्पवर्षे-
ईर्षाकुले सुरकुले कृततूर्यघोषे ।
वड्वाञ्जलिं जय जयेति नुतः पितृभ्यां
त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥ ५ ॥
 
पुण्येति । तत्क्षण एवं वटुरूपम् ॥ ५ ॥
 
तावत् प्रजापतिमुखैरुपनीय मौजी-
दण्डाजिनाक्षवलयादिभिरर्च्यमानः ।
देदीप्यमानवपुरीश ! कृताग्निकार्य-
स्त्वं प्रास्थिथा वलिगृहं प्रकृताश्वमेधम् ॥ ६॥
 
तावदिति ! प्रजापतिमुखैऋषिभिरुपनीय उपनयनाख्यं कर्म कृत्वा तैर्मों-
ञ्ज्यादिभिरर्च्यमान इति । सविता तस्य गायत्री मुपदिदेश । बृहस्पतिर्यज्ञोपवीतं,
पिता मौञ्जीं, भूमिः कृष्णाजिनं, सोमो दण्डम्, अदितिः कौपीनं, द्यौरछत्रं, ब्रह्मा
कमण्डलुं, सप्तर्षयो दर्भा, सरस्वत्यक्षमालां च ददौ । एवं देदीप्यमानमतिशयेन
शोभमानं वपुर्यस्य, कृताग्निकार्योऽनुष्ठितसमिदाधानकर्मा प्रकृताश्वमेधं प्रारब्धाश्व-
मेधयागं बलिगृहं बलेर्यज्ञशालां प्रास्थिथाः प्रस्थितवान् ॥ ६ ॥
 
१. 'रं' क. पाठः, २. 'व पटुतमं वटुरूपम् आधा: (दधौ ?)' क. पाठः,