This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः-८
 
तस्येति । तस्य पयोव्रतस्यावधावन्ते । प्रलपन् त्वं भर्तर्येवंरूपं मां भाव-

यन्ती भर्तारमुपतिष्ठेत्यादि कथयन् अयासीः तिरोभूः ॥ ३ ॥
 
१३२
 

 
त्वं काश्यपे तपसि सन्निदधत् तदानीं

प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा ।

प्रामृसूत च प्रकटवैष्णवदिव्यरूपं

सा द्वादशी श्रवणपुण्यदिने भवन्तम् ॥ ४ ॥
 

 
स्

 
त्
वमिति । काश्यपे काश्यपसम्बन्धिनि तपसि तपः सम्भृते वीर्ये सन्निदधत्

प्रविष्टः । प्रकटवैष्णवदिव्यरूपं शङ्खचक्रगदापद्म किरीटमकुट मकरकुण्डल श्रीवत्स-

कौस्तुभवनमालापीतवसनकाञ्चीनूपुराचुद्युपलक्षितम् ॥ ४ ॥
 

 
पुण्याश्रमं तमभिवर्षति पुष्पवर्षेषै-

र्ह
र्षाकुले सुरकुले कृततूर्यघोषे ।
वड्

बद्ध्
वाञ्जलिं जय जयेति नुतः पितृभ्यां

त्वं तत्क्षणे पटुतमं[^१] वटुरूपमाधाः ॥ ५ ॥
 

 
पुण्येति । तत्क्षण एवंव[^२] वटुरूपम् ॥ ५ ॥
 

 
तावत् प्रजापतिमुखैरुपनीय मौञ्जी-

दण्डाजिनाक्षवलयादिभिरर्च्यमानः ।

देदीप्यमानवपुरीश ! कृताग्निकार्य-

स्त्वं प्रास्थिथा वलिगृहं प्रकृताश्वमेधम् ॥ ६॥
 

 
तावदिति ! प्रजापतिमुखैर्ऋषिभिरुपनीय उपनयनाख्यं कर्म कृत्वा तैर्मोंमो-

ञ्ज्यादिभिरर्च्यमान इति । सविता तस्य गायत्री मुपदिदेश । बृहस्पतिर्यज्ञोपवीतं,

पिता मौञ्जीं, भूमिः कृष्णाजिनं, सोमो दण्डम्, अदितिः कौपीनं, द्यौश्छत्रं, ब्रह्मा

कमण्डलुं, सप्तर्षयो दर्भा<flag>म्</flag>, सरस्वत्यक्षमालां च ददौ । एवं देदीप्यमानमतिशयेन

शोभमानं वपुर्यस्य, कृताग्निकार्योऽनुष्ठितसमिदाधानकर्मा प्रकृताश्वमेधं प्रारब्धाश्व-

मेधयागं बलिगृहं बलेर्यज्ञशालां प्रास्थिथाः प्रस्थितवान् ॥ ६ ॥
 

 
[^
]. 'रं' क. पाठः,
[^
]. 'व पटुतमं वटुरूपम् आधा: (दधौ ?)' क. पाठः,