This page has not been fully proofread.

देशकम् – ३० ]
 
वामनचरितवर्णनम् ।
 
१३१
 
भूय इति । विद्रुतवतीं प्राद्रवन्तीमुपधाव्य वीर्यस्य रेतसः प्रमोक्षेण । त्वया
सम्मानितः तव महत्त्वं देव्यै उवाच ॥ १० ॥
 
इति देवानाममृतोपलब्धिप्रकारवर्णनं मोहिनीदर्शनेन शिवस्य धैर्यच्युतिवर्णनं च
एकोनत्रिंशं दशकम् ।
 
प्रतिज्ञानिर्वहणादौ धर्मे महाबलिर्दृष्टान्त इति तत्कथां तदुपयोगिभगवदवतार-
चरितं च प्रकाशयिष्यन् प्रथमं बलिविजयमाह -
 
शक्रेण संयति हतोऽपि बलिर्महात्मा
 
शुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।
विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं
चक्रे वशे स तव चक्रमुखादभीतः ॥ १ ॥
 
शक्रेणेति । शक्रेण हतोऽपि शुक्रेण मृतसञ्जीविन्याख्यया विद्यया
जीवितैतनुः । विश्वजिदाख्येन क्रतुना वर्धित ऊष्मा शक्तिर्यस्य । भयेन युद्धे
निलीनाः सुरा यस्याम् । स बलिश्चक्रमुखात् सुदर्शनादभीतः, प्रह्लादवंश्यत्वात् ॥१॥
पुत्रार्तिदर्शनवशाददितिर्विषण्णा
 
तं काश्यपं निजपतिं शरणं प्रपन्ना ।
खत्पूजनं तदुदितं हि पयोव्रताख्यं
 
सा द्वादशाहमचरत् त्वयि भक्तिपूर्णा ॥ २ ॥
पुत्रेति । पुत्रस्यार्तिः इन्द्रस्य स्वर्गपहरणजा पीडा । तदुदितं काश्य-
पोदितम् ॥ २ ॥
 
तस्यावधौ त्वयि निलीनमतेरमुष्याः
श्यामञ्चतुर्भुजवपुः स्वयमाविरासीः ।
 
नम्रां च तामिह भवत्तनयो भवेयं
 
गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥ ३ ॥
 
'त:' क. पाठ:
 
१. 'वन्या वि' ख. पाठः,