This page has not been fully proofread.

[ स्कन्धः - ८
 
त्वत्त इति । त्वत्तः सुधाहरणस्य योग्यं फलं व्यर्थपरिश्रमं परेषु दैत्येषु ।
ते दैत्याः सुरैर्व्यगृह्णन् कलहं चक्रुः ॥ ६ ॥
 
नारायणाय
 
त्वं कालनेमिमथ मालिमुखाजघन्थ
 
शक्रो जघान बलिजम्भवलान् सपाकान् ।
शुष्काईदुष्करवधे नमुचौ च लूने
 
फेनेन नारदगिरा न्यरुणो रणं तम् ॥ ७ ॥
 
त्वमिति । शुष्केणार्द्रेण च दुष्करवधो नमुचिस्तस्मिन् उभयात्मकेन फेनेन
लूने छिन्नशिरस्के ब्रह्मणा प्रेषितस्य नारदस्य गिरा त्वं रणं न्यरुणः ॥ ७ ॥
 
योषावपुर्दनुजमोहनमाहितं ते
श्रुखा विलोकनकुतूहलवान् महेशः ।
भूतैः समं गिरिजया च गतः पदं ते
 
स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥ ८ ॥
 
योषेति। ते योषावपुः स्त्रीरूपमाहितं कृतं श्रुत्वा ते पदं वैकुण्ठम् । अभि-
मतं योषिद्रूपदर्शनम् । अथो प्रार्थनानन्तरम् ॥ ८ ॥
 
आरामसीमनि च कन्दुकघातलीला-
लोलायमाननयनां कमनीं मनोज्ञाम् ।
त्वामेष वीक्ष्य विगलद्वसनां मनोभू-
वेगादनङ्गरिपुरङ्ग ! समालिलिङ्ग ॥ ९ ॥
 
आरामेति । विगलद्वसनां मारुतहृतदुकूलाम् । यद्यप्यनङ्गरिपुरयं,
तथापि मनोभूवेगात् त्वां समालिलिङ्ग ॥ ९ ॥
 
भूयोऽपि विद्रुतवतीमुपधाव्य देवो
वीर्यप्रमोक्षविकसत्परमार्थबोधः ।
खन्मानितस्तव महत्त्वमुवाच देव्यै
 
तत्तादृशस्त्वमव वातनिकेतनाथ! ॥ १० ॥