This page has not been fully proofread.

दशकनू - Y
 
का त्वं मृगाक्षि! विभजस्व सुधामिमामि-
त्यारूढरागविवशानभियाचतोऽमून् ।
विश्वस्यते मयि कथं कुलटास्मि दैत्या !
इत्यालपन्नपि सुविश्वसितानतानीः ॥ ३ ॥
 
केति । हे दैत्याः ! अहं कुलटा पुंश्चल्यस्मि, भवद्भिः कथं मयि
विश्वस्यते इत्यालपन्नपि तदानीन्तनसप्रेमस्मितकटाक्षादिभिः
 

 
सुविश्वसिता-
नतानीः ॥ ३ ॥
 
मोदात् सुधाकलशमेषु ददत्सु सा वं
दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।
पङ्क्तिप्रभेदविनिवेशितदेवदैत्या
 
लीलाविलासगतिभिः समदाः सुधां ताम् ॥ ४॥
 
मोदादिति । यत्किञ्चिद् मया क्रियमाणं दुश्चेष्टितं सहध्वम् । पङ्क्तिप्र-
भेदेन द्विधा विनिवेशिता देवदैत्या यया सा तथा दैत्यान् वञ्चयितुं तद्विषयया
ललिया विलासेन गत्यातिसमीपसञ्चरणेन च समदाः सम्यक् सुरेभ्य एवाददाः ।
तां जरामरणहारिणीं सुधामित्यर्थः ॥ ४ ॥
 
अस्मास्वियं प्रणयिनीत्यसुरेषु तेषु
 
जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।
वं भक्तलोकवशगो निजरूपमेत्य
 
-
 
स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ ५ ॥
 
अस्मास्विति । असुरेषु तु अस्मास्वियं प्रणयिनी, अहो भाग्यम्, एषास्मान्
न वञ्चयेदिति। जोषं तूष्णीम् । स्वर्भानुं देवलिङ्गच्छन्नं चक्रेण व्यलाबीः
शिरोऽच्छिनः ॥ ५ ॥
 
त्वत्तः सुधाहरणयोग्यफलं परेषु
 
दत्त्वा गते लयि सुरैः खलु ते व्यगृह्णन् ।
घोरेऽथ मूर्छति रणे बलिदैत्यमाया-
व्यामोहिते सुरगणे त्वमिहाविरासीः ॥ ६ ॥
 
१. 'भिच सु' ग. पाठ:.