This page has not been fully proofread.

१२८
 
नारायणीये
 
उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् ।
त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्वम् ॥ ८ ॥
 
[स्कन्धः - <
 
उरसेति । त्वं च तरसैनामुरसा ममानिथ स्वोरसि निवासमकरोः ।
नान्यस्मिन् भावोऽनुरागो यस्याः सानन्यभावा । त्वदुरसि विलसन्त्यास्तस्या ईक्ष-
णश्रियः सकरुणकटाक्षशोभायाः परिवृष्ट्या विश्धं परिपुष्टं सकलसम्पत्समृद्धम् आस
अभूत् ॥ ८ ॥
 
अंथ वारुणी देव्युदभूदित्याह-
अतिमोहनविभ्रमा तदानीं मयन्ती खलु वारुणी निरागात् ।
तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥ ९ ॥
अतीति । तमसोऽज्ञानस्य पदवीं हेतुभूतां वारुणीम् ॥ ९ ॥
अथ धन्वन्तर्यवतारमाह-
तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः ।
अमृतं कलशे वहन् कराभ्यामखिलार्ति हर मारुतालयेश ! ॥ १० ॥
इत्यमृतमथनवर्णनम् अष्टाविंशं दशकम् ।
 
उद्गच्छतस्तव करादमृतं हरत्सु
दैत्येषु तानशरणाननुनीय देवान् ।
सद्यस्तिरोदधिथ देव ! भवत्प्रभावा-
दुद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥ १ ॥
 
उद्गच्छत इति । उद्गच्छतः प्रादुर्भवतः । अशरणाननन्यशरणान् । भवतः
प्रभावः शक्तिर्माया तस्मादुद्यन् सयूथ्यकलहोऽन्योन्यविवादो येषां ते ॥ १ ॥
श्यामां रुचापि वयसापि तनुं तदानीं
 
प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वम् ।
पीयूपकुम्भकलहं परिमुच्य सर्वे
 
तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥ २ ॥
 
श्यामामिति । वयसापि श्यामां यौवनमध्यस्थाम् । भङ्गुरां नम्राम् । त्वदुरो
जकुम्भे पीयूषादप्यतिमधुरे ॥ २ ॥
 
१. 'परिय' घ. पाठ:.