This page has been fully proofread once and needs a second look.

१२८
 
नारायणीये
 
उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् ।

त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्वम् ॥ ८ ॥
 
[स्कन्धः - <
 

 
उरसेति । त्वं च तरसैनामुरसा ममानिथ स्वोरसि निवासमकरोः ।

नान्यस्मिन् भावोऽनुरागो यस्याः सानन्यभावा । त्वदुरसि विलसन्त्यास्तस्या ईक्ष-

णश्रियः सकरुणकटाक्षशोभायाः परिवृष्ट्या विश्धंवं परिपुष्टं सकलसम्पत्समृद्धम् आस

अभूत् ॥ ८ ॥
 
अं

 
थ वारुणी देव्युदभूदित्याह-
-
 
अतिमोहनविभ्रमा तदानीं मयन्ती खलु वारुणी निरागात् ।

तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥ ९ ॥

 
अतीति । तमसोऽज्ञानस्य पदवीं हेतुभूतां वारुणीम् ॥ ९ ॥

 
अथ धन्वन्तर्यवतारमाह-
-
 
तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः ।

अमृतं कलशे वहन् कराभ्यामखिलार्तितिं हर मारुतालयेश ! ॥ १० ॥

 
इत्यमृतमथनवर्णनम् अष्टाविंशं दशकम् ।
 

 
उद्गच्छतस्तव करादमृतं हरत्सु

दैत्येषु तानशरणाननुनीय देवान् ।

सद्यस्तिरोदधिथ देव ! भवत्प्रभावा-

दुद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥ १ ॥
 

 
उद्गच्छत इति । उद्गच्छतः प्रादुर्भवतः । अशरणाननन्यशरणान् । भवतः

प्रभावः शक्तिर्माया तस्मादुद्यन् सयूथ्यकलहोऽन्योन्यविवादो येषां ते ॥ १ ॥

 
श्यामां रुचापि वयसापि तनुं तदानीं
 

प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वम् ।

पीयूकुम्भकलहं परिमुच्य सर्वे
 

तृष्णाकुलाः प्र[^१]तिययुस्त्वदुरोजकुम्भे ॥ २ ॥
 

 
श्यामामिति । वयसापि श्यामां यौवनमध्यस्थाम् । भङ्गुरां नम्राम् । त्वदुरो
-
जकुम्भे पीयूषादप्यतिमधुरे ॥ २ ॥
 

 
[^
]. 'परिय' घ. पाठ:.
 
ठः