This page has not been fully proofread.

दशकम् - २८]
 
अमृतमथनवर्णनम् ।
 
जगदीश ! भवत्परा तदानीं कमनीया कमला बभूव देवी ।
अमलामवलोक्य यां विलोलः सकलोऽपि स्पृहयाम्बभूव लोकः ॥ ३ ॥
 
जगदिति । भवान् परः प्रधानो यस्याः सा भवत्परा ॥ ३ ॥
 
त्वयि दत्तहृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् ।
सकलोपहृताभिषेचनीयैर्ऋषयस्तां श्रुतिगीर्भिरभ्याषिञ्चन् ॥ ४॥
 
वयीति । त्वयि दत्तं समर्पितं हृद् यया सा तथा तस्यै दत्तहृदे । यदैव-
मवगता, तदैव सकलैः सरिद्भूम्यादिभिरुपहृतैरभिषेचनीयैरभिषेकसाधनैरोषधीकु-
म्भपवित्रादिभिर्ऋषयस्तां महालक्ष्मीं श्रुतिगीर्भिर्मन्त्रैरभ्यषिञ्चन् ॥ ४ ॥
 
अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम्
मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्वभूषन् ॥ ५ ॥
 

 
१२७
 
अभिषेकेति । अभिषेकजलपातसमनन्तरं पतितुं शीलं येषां तैर्मुग्धैस्त्वद-
पारेवावभूषिता अङ्गवली यस्यास्ताम् । अमरादयो मणिकुण्डलपीत चेलहारप्रमुखै-
रन्वभूषन्+अलञ्चक्रुः ॥ ५ ॥
 
वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना ।
पदशिञ्जितमञ्जुनूपुरा त्वां कलितत्रीलविलासमाससाद ॥ ६ ॥
 
वरणेति । वरणस्रजं स्वयंवरमालाम् ॥ ६ ॥
 
गिरिशद्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् ।
अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥ ७ ॥
 
गिरिशेति । अविमुक्तदोषलेशान् कामक्रोधादिषड्दोषयुक्तान् अवमृश्य
विचार्य सदैव सर्वैर्गुणैर्दोषरहितै रम्ये त्वयि तवांसदेशेऽनया श्रिया दिव्यमाला
निहिता ॥ ७ ॥
 
+ 'भूष अलङ्कारे' भौवादिकः ।