This page has been fully proofread once and needs a second look.

दशकम् - २८]
 
अमृतमथनवर्णनम् ।
 
जगदीश ! भवत्परा तदानीं कमनीया कमला बभूव देवी ।

अमलामवलोक्य यां विलोलः सकलोऽपि स्पृहयाम्बभूव लोकः ॥ ३ ॥
 

 
जगदिति । भवान् परः प्रधानो यस्याः सा भवत्परा ॥ ३ ॥
 

 
त्वयि दत्तहृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् ।

सकलोपहृताभिषेचनीयैर्ऋषयस्तां श्रुतिगीर्भिरभ्याषिञ्चन् ॥ ४॥
 

 
त्
वयीति । त्वयि दत्तं समर्पितं हृद् यया सा तथा तस्यै दत्तहृदे । यदैव-

मवगता, तदैव सकलैः सरिद्भूम्यादिभिरुपहृतैरभिषेचनीयैरभिषेकसाधनैरोषधीकु-

म्भपवित्रादिभिर्ऋषयस्तां महालक्ष्मीं श्रुतिगीर्भिर्मन्त्रैरभ्यषिञ्चन् ॥ ४ ॥
 

 
अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम्

मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्वभूषन् ॥ ५ ॥
 

 
१२७
 

 
अभिषेकेति । अभिषेकजलपातसमनन्तरं पतितुं शीलं येषां तैर्मुग्धैस्त्वद-

पाङ्गैरेवावभूषिता अङ्गवली यस्यास्ताम् । अमरादयो मणिकुण्डलपीत चेलहारप्रमुखै-

रन्वभूषन् [^+]अलञ्चक्रुः ॥ ५ ॥
 

 
वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना ।

पदशिञ्जितमञ्जुनूपुरा त्वां कलितत्व्रीलविलासमाससाद ॥ ६ ॥
 

 
वरणेति । वरणस्रजं स्वयंवरमालाम् ॥ ६ ॥
 

 
गिरिशद्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् ।

अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥ ७ ॥
 

 
गिरिशेति । अविमुक्तदोषलेशान् कामक्रोधादिषड्दोषयुक्तान् अवमृश्य

विचार्य सदैव सर्वैर्गुणैर्दोषरहितै रम्ये त्वयि तवांसदेशेऽनया श्रिया दिव्यमाला

निहिता ॥ ७ ॥
 

 
[^
+] 'भूष अलङ्कारे' भौवादिकः ।