This page has not been fully proofread.

१२६
 
[स्कन्धः - ८
 
उद्दाम भ्रमणजवोन्नमगिरीन्द्रन्यस्तैकस्थिरतर
हस्तपङ्कजं त्वाम् ।
अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात पुष्पवर्षाः ॥ ९ ॥
 
नारायणीये
 
उद्दामेति । उद्दाम्ना सातिशयेन भ्रमणजवेनोन्नमति उत्पतति गिरीन्द्रे
न्यस्तो निक्षिप्त एकः स्थिरतरहस्तपङ्कजो (?) येन तं त्वाम् । अभ्रान्ते मेघमार्ग
उद्भ्रान्ताः प्रमोदविवशा नुनुवुस्तुष्टुवुः ॥ ९ ॥
 
दैत्यौघे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते ।
कारुण्यात् तव किल देव ! वारिवाहाः प्रावर्षन्नमरगणान् न दैत्यसङ्घान् ॥
दैत्यौघ इति । वारिवाहाः मेघाः ॥ १० ॥
 
उद्भ्राम्यद्वहुतिमिनक्रचक्रवाले तत्राब्धौ चिरमथितेऽपि निर्विकारे ।
एकस्त्वं करयुगऋष्टसर्पराजः संराजन् पवनपुरेश ! पाहि रोगात् ॥ ११ ॥
 
उद्भ्राम्यदिति । उद्भाम्यतामुत्पततां, तिमिर्महामत्स्यः, बहुतिमिनक्राणां
चक्रवालं समूहो यस्मिन् । तत्र तस्मिन् ॥ ११ ॥
 
इत्यमृतमथने देवासुराणामशक्तौ भगवत्कृतमथनवर्ण
सप्तविंशं दशकं सैकम् ।
 
गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् ।
अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥ १ ॥
 
"
 
गरलमिति । उद्विजगाल उद्गलितमभूत् तदामराणां गिरिशविषयो यः
स्तुतिवादस्तन्निघ्नस्तदधीनः सन् तद् गरलं निपपौ पीतवान् ॥ १ ॥
विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् ! ।
इयरत्नमभूदथेभरत्नं द्युतरुवाप्सरसः सुरेषु तानि ॥ २ ॥
 
विमथत्स्विति । हयरत्नमुच्चैःश्रवाः । इभरत्नमैरावतः । द्युतरुः कल्पवृक्षः ।
तानि सुरेषु च न्यधाः दत्तवान् ॥ २ ॥