This page has been fully proofread once and needs a second look.

१२६
 
[स्कन्धः - ८
 
उद्दाम भ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतर
हस्तपङ्कजं त्वाम् ।

अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥ ९ ॥
 
नारायणीये
 

 
उद्दामेति । उद्दाम्ना सातिशयेन भ्रमणजवेनोन्नमति उत्पतति गिरीन्द्रे

न्यस्तो निक्षिप्त एकः स्थिरतरहस्तपङ्कजो (?) येन तं त्वाम् । अभ्रान्ते मेघमार्ग

उद्भ्रान्ताः प्रमोदविवशा नुनुवुस्तुष्टुवुः ॥ ९ ॥
 

 
दैत्यौघे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते ।

कारुण्यात् तव किल देव ! वारिवाहाः प्रावर्षन्नमरगणान् न दैत्यसङ्घान् ॥

 
दैत्यौघ इति । वारिवाहाः मेघाः ॥ १० ॥
 

 
उद्भ्राम्यद्हुतिमिनक्रचक्रवाले तत्राब्धौ चिरमथितेऽपि निर्विकारे ।

एकस्त्वं करयुगकृष्टसर्पराजः संराजन् पवनपुरेश ! पाहि रोगात् ॥ ११ ॥
 

 
उद्भ्राम्यदिति । उद्भाभ्राम्यतामुत्पततां, तिमिर्महामत्स्यः, बहुतिमिनक्राणां

चक्रवालं समूहो यस्मिन् । तत्र तस्मिन् ॥ ११ ॥
 

 
इत्यमृतमथने देवासुराणामशक्तौ भगवत्कृतमथनवर्
णः
सप्तविंशं दशकं सैकम् ।
 

 
गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् ।

अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥ १ ॥
 
"
 

 
गरलमिति । उद्विजगाल उद्गलितमभूत् तदामराणां गिरिशविषयो यः

स्तुतिवादस्तन्निघ्नस्तदधीनः सन् तद् गरलं निपपौ पीतवान् ॥ १ ॥

 
विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् ! ।

यरत्नमभूदथेभरत्नं द्युतरुवाश्चाप्सरसः सुरेषु तानि ॥ २ ॥
 

 
विमथत्स्विति । हयरत्नमुच्चैःश्रवाः । इभरत्नमैरावतः । द्युतरुः कल्पवृक्षः ।

तानि सुरेषु च न्यधाः दत्तवान् ॥ २ ॥