2023-02-16 08:52:17 by ambuda-bot
This page has not been fully proofread.
दशकम् - २७]
अमृतमथनवर्णनम् ।
१२५
सन्धानं कृतवति दानवैः सुरौघे मन्थानं नयति मन मन्दराद्रिम् ।
भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेन्द्रे सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥ ४ ॥
सन्धानमिति । सुरदानवौघे मन्थानं मथनसाधनम् । अस्मिन् मन्दराद्रौ
श्रान्तशत्रैरोचनादिहस्तेभ्यो भ्रष्टे निपतिते सति त्वं खगेन्द्रे गरुडे एकेन
हस्तेनोद्धृत्यारोप्योद्वहन् ॥ ४ ॥
आधाय द्रुतमथ वासुकिं वस्त्रां पाथोधौ विनिहितसर्ववीजजाले ।
प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात् त्वं भुजगमुखेऽकरोः सुरारीन् ॥५॥
आधायेति । अथ वासुकिं वस्त्रां नेत्रम् । विनिहितानि निक्षिप्तानि सर्व-
बीजजालानि वीरुत्तृणौषधिसमूहा यस्मिन् । व्याजादिति । हरिः सुरैः सार्धमहिपु-
च्छममङ्गलमित्युच्चैर्वदन् पूर्वं पूर्वकायं जगृहे । ततोऽसुरा वयं श्लाघ्याः पुच्छं न
गृह्णीम इति तूर्णांभूतान् सुरारीन् अतिसम्माननया भुजगमुखे निर्गमिष्यद्विषा-
न्युलवणे ॥ ५ ॥
क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धान्धौ गुरुतरभारतो निमग्ने ।
देवेषु व्यथिततमेषु तत्मियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥ ६ ॥
क्षुब्धेति । क्षुब्धे भ्रमितेऽद्रौ मन्दराचले दुग्धाधौ निमने सति त्वं कम-
उतनुं कच्छपरूपं प्राणैषीः प्रणीतवान् ॥ ६ ॥
वज्रातिस्थिरतरकर्परेण विष्णो ! विस्तारात् परिगतलक्षयोजनेन ।
अम्भोधेः कुहरगतेन वर्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥ ७ ॥
वज्रेति । वज्रादतिस्थिरतर पृष्ठदेशयुक्तेन वर्मणा मूर्त्या उन्निनेथ उन्मग्न -
मकरोः ॥ ७ ॥
उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढ मिह सम्पदेन सर्वे ।
आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥ ८ ॥
उन्मग्न इति । द्वितयगणे सुरगणेऽसुरगणे च तदन्यतमरूपेणाविश्य सर्प-
राजेऽपि सूक्ष्मरूपेणाविश्य तेषां वैवश्यं पीडां परिशमयन् अवीवृधस्तान् बलवीर्य -
सम्पन्नानकरोः ॥ ८ ॥