This page has not been fully proofread.

नारायणीये
 
भगवतैवानुगृहीतां फलश्रुतिमाह-
एतद् वृत्तं त्वां च मां च प्रगे यो गायेत् सोऽयं भूयसे श्रेयसे स्यात् ।
इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो! पाहि वातालयेश ! ॥१०॥
 
१२४
 
एतद्विति । प्रगे प्रातः । वृत्तं गजेन्द्रमोक्षणरूपं हरिचरितम् । भूयसे श्रेयसे
स्याद् मोक्षप्राप्तियोग्यो, भवेदित्युक्त्वानुगृह्य । धिष्ण्यं वैकुण्ठम् ॥ १० ॥
इति गजेन्द्रमोक्षवर्णनं पड्ड्वंशं दशकम् ।
 
[स्कन्धः-८
 
अथ समुद्रदृष्टान्तेन सम्पदि सत्यां तामर्थिषु स्वात्मना सह समर्पयेदित्ययं
धर्मः प्रकाश्यते । स हि सुरासुरेभ्योऽर्थिभ्य आत्ममथनेन सकलसम्पत्समर्पणं कृतवा
निति जलधिमथनतदुपयोगिभगवदवतारचरितकथनाय प्रथमं देवानां शापनिमित्तैश्व-
र्यभ्रंशमाह द्वाभ्यां -----
 
दुर्वासाः सुरवनितातदिव्यमाल्यं शऋाय स्वयमुपदाय तत्र भूयः ।
नागेन्द्रप्रतिमृदिते शशाप शक्कं का शान्तिस्त्वदितरदेवतांशजानाम् ॥ १ ॥
 
दुर्वासा इति । सुरवनिताया हस्ताल्लब्धं शक्रायैरावतमारुह्य गैच्छते ।
उपदाय दत्त्वा । तत्र दिव्यमाल्ये। शक्रं निःश्रीका ( देवा ) भवन्त्विति शशाप ।
त्वदितरदेवताः श्रीशङ्करादयः, दुर्वासा हि शङ्करांशजः ॥ १ ॥
 
शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु ।
शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव ! समं भवन्तमापुः ॥ २ ॥
 
शापेनेति । हे निर्वाणप्रभव ! मोक्षप्राप्तिस्थानभूत ! ॥ २ ॥
ब्रह्माद्यैर्नृतमहिमा चिरं तदानीं प्रादुःपन् वरद ! पुरः परेण धाम्ना ।
है देवा ! दितिजकुलै विधाय सन्धि पीयूपं परिमथतेति पर्यशास्त्वम् ॥३॥
 
१ स्थिताय उ' क. पाठ:
 
‡ 'निःश्रीको भव त्वमिति' इति वा पाउचम् ।
 
* 'मथे विलोडने' भौवादिकः ।