This page has been fully proofread once and needs a second look.

नारायणीये
 
भगवतैवानुगृहीतां फलश्रुतिमाह-
-
 
एतद् वृत्तं त्वां च मां च प्रगे यो गायेत् सोऽयं भूयसे श्रेयसे स्यात् ।

इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो! पाहि वातालयेश ! ॥१०॥
 
१२४
 

 
एतद्विदिति । प्रगे प्रातः । वृत्तं गजेन्द्रमोक्षणरूपं हरिचरितम् । भूयसे श्रेयसे

स्याद् मोक्षप्राप्तियोग्यो, भवेदित्युक्त्वानुगृह्य । धिष्ण्यं वैकुण्ठम् ॥ १० ॥

 
इति गजेन्द्रमोक्षवर्णनं ड्ड्वंविंशं दशकम् ।
 
[स्कन्धः-८
 

 
अथ समुद्रदृष्टान्तेन सम्पदि सत्यां तामर्थिषु स्वात्मना सह समर्पयेदित्ययं

धर्मः प्रकाश्यते । स हि सुरासुरेभ्योऽर्थिभ्य आत्ममथनेन सकलसम्पत्समर्पणं कृतवा
-
निति जलधिमथनतदुपयोगिभगवदवतारचरितकथनाय प्रथमं देवानां शापनिमित्तैश्व-

र्यभ्रंशमाह द्वाभ्यां -----
 

 
दुर्वासाः सुरवनिताप्तदिव्यमाल्यं शऋाक्राय स्वयमुपदाय तत्र भूयः ।

नागेन्द्रप्रतिमृदिते शशाप शक्कंरं का शाक्षान्तिस्त्वदितरदेवतांशजानाम् ॥ १ ॥
 

 
दुर्वासा इति । सुरवनिताया हस्ताल्लब्धं शक्रायैरावतमारुह्य गैग[^१]च्छते ।

उपदाय दत्त्वा । तत्र दिव्यमाल्ये। शक्रं [^‡]निःश्रीका ( देवा ) भवन्त्विति शशाप ।

त्वदितरदेवताः श्रीशङ्करादयः, दुर्वासा हि शङ्करांशजः ॥ १ ॥
 

 
शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु ।

शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव ! समं भवन्तमापुः ॥ २ ॥
 

 
शापेनेति । हे निर्वाणप्रभव ! मोक्षप्राप्तिस्थानभूत ! ॥ २ ॥

 
ब्रह्माद्यैर्नृतमहिमा चिरं तदानीं प्रादुःपन् वरद ! पुरः परेण धाम्ना ।
है

हे
देवा ! दितिजकुलै र्विधाय सन्धिधिं पीयूपं षं [^*]परिमथतेति पर्यशास्त्वम् ॥३॥
 

 
[^
] स्थिताय उ' क. पाठ:
 

[^
] 'निःश्रीको भव त्वमिति' इति वा पाउचठ्यम् ।
 

[^
*] 'मथे विलोडने' भौवादिकः ।