This page has not been fully proofread.

देशकम् -- २६]
 
गजेन्द्रमोक्षवर्णनम् ।
 
हूहूस्तावद् देवलस्यापि शापाद् ग्राही भूतस्तज्जले वर्तमानः ।
जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थ हि श्रान्तिदोऽसि स्वकानाम् ॥ ५ ॥
 
१२३
 
हूहूरिति । तावत् तस्मिन् काल एव हूहूर्नाम गन्धर्वोऽपि देवलस्यर्षेः
शापाद् ग्राहीभूतो ग्राहतां प्राप्तः । ननु गजेन्द्रश्चेद् भक्तः कथं ग्राहादभिभव इति
नाशङ्कनीयमित्याह–शान्त्यर्थमिति । हि यस्माच्छान्त्यर्थं विषयविरक्त्यर्थं स्वकानां
भक्तानां श्रान्तिदोऽसि पीडाकरो भवसि ॥ ५ ॥
 
वत्सेवाया वैभवाद् दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् ।
प्राप्ते काले खत्पदैकाग्रथसिद्धयै नकाक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥ ६ ॥
 
त्वदिति । प्राप्ते काले प्रारब्धेऽवसिते त्वत्पदयोरैकाग्र्यं समाधिस्तस्य
सिद्ध्यै प्राप्तये । अथवा प्राग्जन्माभ्यस्तस्य त्वत्पदैकाग्र्यस्य सिद्धिः फलं मोक्षस्त-
प्राप्तये ॥ ६ ॥
 
आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्सितैः पुण्डरीकैः समर्चन् ।
पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्र श्रेष्ठं सोऽन्वगादीत् परात्मन् ! ॥ ७ ॥
आर्तीति । आर्त्या नकाक्रान्तिजन्यया पीडया व्यक्ते प्राक्तने जन्मान्तरा-
भ्यस्ते ज्ञानभक्ती यस्य । निर्विशेषात्मनिष्ठं निर्गुणब्रह्मविषयम् ॥ ७ ॥
 
श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते ।
सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्थ्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥ ८॥
 
श्रुत्वेति । ब्रह्मेशाद्यैर्ब्रह्माहमीशोऽहमित्यभिमानिभिर्नाहमनेन स्तुतः, यतो
ब्रह्मनिष्ठं स्तोत्रमस्येत्यप्रयाते सति त्वं पुरस्तात् प्रेक्षितः प्रादुर्भूतोऽभूः । ननु विष्णु-
रपि विष्णुरहमित्यभिमान्येव, नेत्याह – सर्वात्मेति । ब्रह्मादीनामप्यात्मान्तर्यामी
त्वम् ॥ ८ ॥
 

 
अथ गजेन्द्रमोक्षमाह -
 
हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्य व्यदारीः ।
गन्धर्वेऽस्मिन् मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ ९ ॥