2023-03-24 14:08:35 by Padmavati
This page has been fully proofread once and needs a second look.
गजेन्द्रमोक्षवर्णनम् ।
जग्राहैनं हस्तिनं पाददेशे शान्त्यर्
१२३
हूहूरिति । तावत् तस्मिन् काल एव हूहूर्नाम गन्धर्वोऽपि देवलस्यर्षेः
शापाद् ग्राहीभूतो ग्राहतां प्राप्तः । ननु गजेन्द्रश्चेद् भक्तः कथं ग्राहादभिभव इति
नाशङ्कनीयमित्याह
भक्तानां श्रान्तिदोऽसि पीडाकरो भवसि ॥ ५ ॥
त्वत्सेवाया वैभवाद् दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् ।
प्राप्ते काले खत्पदैकाग्
त्वदिति । प्राप्ते काले प्रारब्धेऽवसिते त्वत्पदयोरैकाग्र्यं समाधिस्तस्य
सिद्ध्यै प्राप्तये । अथवा प्राग्जन्माभ्यस्तस्य त्वत्पदैकाग्र्यस्य सिद्धिः फलं मोक्षस्त-
प्राप्तये ॥ ६ ॥
आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्
पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्र
आर्तीति । आर्त्या न
भ्यस्ते ज्ञानभक्ती यस्य । निर्विशेषात्मनिष्ठं निर्गुणब्रह्मविषयम् ॥ ७ ॥
श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते ।
सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्
श्रुत्वेति । ब्रह्मेशाद्यैर्ब्रह्माहमीशोऽहमित्यभिमानिभिर्नाहमनेन स्तुतः, यतो
ब्रह्मनिष्ठं स्तोत्रमस्येत्यप्रयाते सति त्वं पुरस्तात् प्रेक्षितः प्रादुर्भूतोऽभूः । ननु विष्णु-
रपि विष्णुरहमित्यभिमान्येव, नेत्याह
त्वम् ॥ ८ ॥
—
अथ गजेन्द्रमोक्षमाह
हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्
गन्धर्वेऽस्मिन् मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ ९ ॥