This page has not been fully proofread.

अथाष्टमस्कन्धपरिच्छेदः ।
 
मन्वन्तराख्यः सद्धर्मो मन्वादिप्रतिबोधितः ।
लक्ष्यतेऽष्टमनिर्दिष्टो हरिलीलोपबृंहितः ॥
 
अथापदि श्रीहरौ मनोनिवेशनं धर्मसारांशभूतमिति गजेन्द्रदृष्टान्तेन दर्शयि-
प्यन् अस्य प्राग्जन्मकथामाह द्वाभ्याम्-
इन्द्रधुम्नः पाण्डयखण्डाधिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् ।
खत्सेवायां मनधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ १ ॥
 
इन्द्रेति । पाण्ड्यखण्डो भारतखण्डदक्षिणभागः ॥ १ ॥
 
कुम्भोद्भूतः सम्भृतक्रोधभार: स्तब्धात्मा त्वं हस्तिभूयं भजेति ।
शप्त्वाथैनं प्रत्यगात् सोऽपि लेभे हस्तीन्द्रत्वं वत्स्मृतिव्यक्तिधन्यम् ॥२॥
 
कुम्भोद्भूत इति । हस्तिभूयं हस्तित्वम् । प्रत्यगात् प्रतिनिवृत्तः । त्वत्स्मृतेः
प्राग्जन्माभ्यस्ताया व्यक्तिः प्रकाशस्तेन धन्यं पुरुषार्थप्रदम् ॥ २ ॥
 
दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रीडञ्छैले यूथपोऽयं वशाभिः ।
सर्वान् जन्तूनत्यवर्तिष्ट शक्तया खद्भक्तानां कुत्र नोत्कर्षलाभः ॥ ३ ॥
दुग्धेति । त्वद्भक्तानां कुत्र केषु योनिषु नोत्कर्षलाभः, यद् गजत्वेऽपि
सर्वजन्तूनव्यवर्तिष्ट अतिशयितवान् ॥ ३ ॥
 
स्वेन स्थेम्ना दिव्यदेहत्वशक्तया सोऽयं खेदानप्रजानन् कदाचित् ।
शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं सत्प्रणुन्नोऽभिरेमे ॥ ४ ॥
 
स्वेनेति । स्वेनानन्यसाधारणेन स्थेम्ना बलेन बलाधिकेतरसत्त्वसमुद्भूतान्
खेदान् पीडाः । घर्मतान्तः ग्रीष्मकालोद्भूतेनोष्मणा क्लान्तः । शैलप्रान्ते पर्वतनि-
तम्बवर्तिनि ऋतुमन्नाम्न्युद्याने सरस्यां त्वत्प्रणुन्नो निजपदं प्रापयिष्यतेश्वरेण
प्रेरितः ॥ ४ ॥