This page has been fully proofread once and needs a second look.

अथाष्टमस्कन्धपरिच्छेदः ।
 

 
मन्वन्तराख्यः सद्धर्मो मन्वादिप्रतिबोधितः ।

लक्ष्यतेऽष्टमनिर्दिष्टो हरिलीलोपबृंहितः ॥
 

 
अथापदि श्रीहरौ मनोनिवेशनं धर्मसारांशभूतमिति गजेन्द्रदृष्टान्तेन दर्शयि-
प्

ष्
यन् अस्य प्राग्जन्मकथामाह द्वाभ्याम्-
-
 
इन्द्रधुद्युम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् ।

खत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ १ ॥
 

 
इन्द्रेति । पाण्ड्यखण्डो भारतखण्डदक्षिणभागः ॥ १ ॥
 

 
कुम्भोद्भूतः सम्भृतक्रोधभार: स्तब्धात्मा त्वं हस्तिभूयं भजेति ।

शप्त्वाथैनं प्रत्यगात् सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥२॥
 

 
कुम्भोद्भूत इति । हस्तिभूयं हस्तित्वम् । प्रत्यगात् प्रतिनिवृत्तः । त्वत्स्मृतेः

प्राग्जन्माभ्यस्ताया व्यक्तिः प्रकाशस्तेन धन्यं पुरुषार्थप्रदम् ॥ २ ॥
 

 
दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रीडञ्छैले यूथपोऽयं वशाभिः ।

सर्वान् जन्तूनत्यवर्तिष्ट शक्त्या खद्भक्तानां कुत्र नोत्कर्षलाभः ॥ ३ ॥

 
दुग्धेति । त्वद्भक्तानां कुत्र केषु योनिषु नोत्कर्षलाभः, यद् गजत्वेऽपि

सर्वजन्तूनव्त्यवर्तिष्ट अतिशयितवान् ॥ ३ ॥
 

 
स्वेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् ।

शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥ ४ ॥
 

 
स्वेनेति । स्वेनानन्यसाधारणेन स्थेम्ना बलेन बलाधिकेतरसत्त्वसमुद्भूतान्

खेदान् पीडाः । घर्मतान्तः ग्रीष्मकालोद्भूतेनोष्मणा क्लान्तः । शैलप्रान्ते पर्वतनि-

तम्बवर्तिनि ऋतुमन्नाम्न्युद्याने सरस्यां त्वत्प्रणुन्नो निजपदं प्रापयिष्यतेश्वरेण

प्रेरितः ॥ ४ ॥