This page has not been fully proofread.

दशकम् - २५]
 
प्रह्लादचरितवर्णनम् ।
 
१२१
 
तावदिति । तावत् तस्मिन् काल एव मध्येसभमुषितं त्वामभ्येतुं कोऽपि
न शशाक । कोऽपि ब्रह्मापीति वा । तत्र हेतवः मांसवपाभ्यां कर लं वपुर्यस्य तम् ।
ततश्च सर्वे प्रत्येकमस्तोषत तुष्टुवुः ॥ ८ ॥
 
भूयोऽध्यक्षतरोषधानि भवति ब्रह्माज्ञया वालके
महादे पदयोर्नमत्यपभये कारुण्यभाराकुलः ।
शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्वायत-
स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥ ९ ॥
 
भूय इति । भूयोऽपि ब्रह्माद्यैः संस्तुतोऽप्यक्षतरोपधाम्नि अन्यूनकोपभाजि
भवति सति प्रह्लादे तव पदयोर्नमति सति तद्वात्सल्येन शान्तस्त्यक्तरोपस्त्वमस्य
मूर्ध्नि करं समधाः । अकामधियोऽप्यस्य दैत्याधिपत्यं लोकानुग्रहरूपं वरं तेनिथ
तौदासीन्येऽपि स्वयं चकर्थ ॥ ९ ॥
 
ननु किमेवं क्रूरस्त्रभावो हरिः, न, यथा नटो रौद्ररसमभिनयति तद्वदित्याह-
एवं नाटितरौद्रचेष्टित! विभो! श्रीतापनीयाभिध-
श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते! ।
तत्तादृनिखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत्
महादप्रिय! हे मरुत्पुरपते! सर्वामयात् पाहि माम् ॥१०॥
 
-
 
एवमिति । अत्र प्रमाणमाइ – श्रीतापनीयेति । श्रीतापनीयोपनिषत्प्रति
पादितैवंविधसकलमहत्त्व ! अत्यन्तशुद्धा सच्चिदानन्दरूपा आकृतिः स्वरूपं यस्य ।
तत्तादृशमनुपमं निखिलोत्तरं सर्वोत्कृष्टं त्वां कः परो लङ्घयेत् त्वत्स्वरूपभूतत्वत्पा-
र्पदादन्यः को वा त्वदप्रियमाचरेदित्यर्थः । हे प्रह्लादप्रिय! भक्तवत्सल ! ॥ १० ॥ २० ॥
 
इति प्रह्लादचरितवर्णनं पञ्चावेशं दशकम् ।
इति नारायणीयस्तोत्रव्याख्यायां
भक्तप्रियाख्यायां
सप्तमस्कन्धपरिच्छेदः ।
 
आदितः श्लोकसङ्ख्या २६३.