2023-02-16 08:52:17 by ambuda-bot
This page has not been fully proofread.
१२०
नारायणीये
[स्कन्धः
Sथानन्तरं विचित्रश्रमान् व्यायाममार्गेषु दक्षिणसव्यसञ्चरणभेदेषु शिक्षाविशेषान्
व्यावृण्वन् प्रकाशयन् भुवनग्रासोद्यतं ब्रह्माण्डकबलीकरणसमर्थं त्वामापपाता-
ससाद ॥ ५ ॥
भ्राम्यन्तं दितिजाधमं पुनरपि प्रोद्गृह्य दोभ्य जवाद्
द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि ।
निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं
पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ ६॥
भ्राम्यन्तमिति । अन्तर्बहिश्च हन्तुमशक्यत्वाद् द्वारे । जले स्थले चाश-
क्यत्वादूरुयुगे दितिजाधमं निपात्यायुधैर्हन्तुमशक्यत्वान्नखरान् वक्षोभुवि व्यु-
त्खाय निर्भिन्दन् विद्वारयन् अधिगर्भं वक्षोन्तर्भागे निर्भरगलद्रक्ताम्बु सिरामुखतः
सन्ततनिःष्यन्दमानं रुधिराम्बु । बद्धोत्सवं यथा भवति तथा । बहून् जगत्संहारिणो
ब्रह्माण्डकटाहभेदकान् सिंहारवानुदैरयः प्रायुङ्क्थाः ॥ ६ ॥
त्यक्त्वा तं हृतमाशु रक्तलहरीसिक्तोन्नमणि
प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि ।
भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं
प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ ७॥
त्यक्त्वेति । रक्तलहरीसिक्तोन्नमद्वमणि रुधिरस्रावाक्तोन्नतका त्वयि
हतं तं त्यक्त्वाशु प्रत्युत्पत्य तदनुगसमस्त दैत्यसमूहांश्चाखाद्यमाने भक्षयति च सति
चराचरं दुःस्थामनवस्थितस्वस्थाननिवेशामवस्थां दधौ । तदेवाह - भ्राम्यन्ती भूमि-
र्यस्मिन् । विकम्पितमम्बुधिकुलं यस्मिन् । व्यालोलशैलोत्करं कन्दुकायमानकुला-
चलनिकरम् । प्रोत्सर्पत्खचरं केसरोत्क्षिप्तज्योतिर्गणम् ॥ ७ ॥
तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं
त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् ।
अभ्येतुं न शशाक कोऽपि भुवने दूरे स्थिता भीरवः
सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ ८ ॥
१. 'कोपमु' ख. पाठः.