This page has been fully proofread once and needs a second look.

१२०
 
नारायणीये
 
[स्कन्धः
 
Sथानन्तरं विचित्रश्रमान् व्यायाममार्गेषु दक्षिणसव्यसञ्चरणभेदेषु शिक्षाविशेषान्

व्यावृण्वन् प्रकाशयन् भुवनग्रासोद्यतं ब्रह्माण्डकबलीकरणसमर्थं त्वामापपाता-

ससाद ॥ ५ ॥
 

 
भ्राम्यन्तं दितिजाधमं पुनरपि प्रोद्गृह्य दोर्भ्या जवाद्

द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि ।

निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं
 

पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ ६॥
 

 
भ्राम्यन्तमिति । अन्तर्बहिश्च हन्तुमशक्यत्वाद् द्वारे । जले स्थले चाश-

क्यत्वादूरुयुगे दितिजाधमं निपात्यायुधैर्हन्तुमशक्यत्वान्नखरान् वक्षोभुवि व्यु-

त्खाय निर्भिन्दन् विद्वादारयन् अधिगर्भं वक्षोन्तर्भागे निर्भरगलद्रक्ताम्बु सिरामुखतः

सन्ततनिःष्यन्दमानं रुधिराम्बु । बद्धोत्सवं यथा भवति तथा । बहून् जगत्संहारिणो

ब्रह्माण्डकटाहभेदकान् सिंहारवानुदैरयः प्रायुङ्क्थाः ॥ ६ ॥
 

 
त्यक्त्वा तं हृतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि
 

प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि ।

भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं

प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ ७॥
 

 
त्यक्त्वेति । रक्तलहरीसिक्तोन्नमद्वर्ष्मणि रुधिरस्रावाक्तोन्नतकाये त्वयि

हतं तं त्यक्त्वाशु प्रत्युत्पत्य तदनुगसमस्त दैत्यसमूहांश्चाखाद्यमाने भक्षयति च सति

चराचरं दुःस्थामनवस्थितस्वस्थाननिवेशामवस्थां दधौ । तदेवाह - -भ्राम्यन्ती भूमि-

र्यस्मिन् । विकम्पितमम्बुधिकुलं यस्मिन् । व्यालोलशैलोत्करं कन्दुकायमानकुला-

चलनिकरम् । प्रोत्सर्पत्खचरं केसरोत्क्षिप्तज्योतिर्गणम् ॥ ७ ॥
 

 
तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं
 

त्वां मध्येसभमिद्धरो[^१]षमुषितं दुर्वारगुर्वारवम् ।

अभ्येतुं न शशाक कोऽपि भुवने दूरे स्थिता भीरवः

सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ ८ ॥
 

 
[^
]. 'कोपमु' ख. पाठः.