This page has been fully proofread once and needs a second look.

तद्रूपमेव वर्णयति--
 
तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर-
प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात् तवेदं वपुः ।
व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा-
जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ ३ ॥
 
तप्तेति । तप्तस्वर्णसवर्णे विलीनावस्थितपुरटसदृशे घूर्णती भ्रमिते अतिरू-
क्षे अक्षिणी यस्मिन्, सटाकेसरप्रोत्कम्पप्रनिकुम्बिताम्बरं प्रचलितस्कन्धरोमाञ्चला-
च्छादितगगनतलं, व्यात्तं विवृतं व्याप्तमहादरीसखं विस्तृतमहागुहासदृशं मुखं य-
स्मिन्, खड्गवदुग्राया वल्गन्त्याश्चलिताया महाजिह्वाया बहिर्निर्गमे दृश्यमानेन
सुमहता दंष्ट्रायुगेनोड्डामरमतिभीषणं तदिदं ते वपुर्जीयात् सर्वोत्कृष्टतया प्रका-
शताम् ॥ ३ ॥
 
उत्सर्पद्वलिभङ्गभीषणहनुं ह्रस्वस्थवीयस्तर -
ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणम् ।
व्योमोल्लङ्घिघनाघनोपमघनप्रध्वाननिर्धावित-
स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ ४॥
 
उत्सर्पदिति । भवतस्तन्नारसिंहं वपुर्नमामि । कीदृशम् उत्सर्पद्भिरट्टहासवि-
जृम्भणादिषूपर्युपरि गच्छद्भिर्वलिभङ्गैर्भीषणौ हनुप्रदेशौ यस्मिन्, ह्रस्वा स्थवीयस्तरा
अतिशयेन स्थूला ग्रीवा यस्मिन्, पीवराणां दोष्णां शतादुद्गतानां नखानां क्रूरै-
रंशुभिर्दूरोल्बणमतिशयेन भयङ्करं, सजलजलधरध्वानवदतिभीषणसिंहनादैर्विद्रावि-
तवैरिनिकरम् ॥ ४ ॥
 
नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् ।
वीरो निर्गलितोऽथ खड्गफलके गृह्णन् विचित्रश्रमान्
व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ ५ ॥
 
नूनमिति । कपटवेषभृद् विष्णुरेवायं नूनं तर्कयामि, अमुं भ्रातृहणं
निहन्मीति निश्चित्य । अधृथास्त्वमग्रहीः । कराभ्यां निर्गलितो वीरो वीरम्मन्यो-