This page has been fully proofread once and needs a second look.

दशकम् - २५]
 
प्रह्लादचरितवर्णनम् ।
 
११९
 
तद्रूपमेव वर्णयति
--
 
तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर-

प्रोत्कम्पप्रनिकुम्विबिताम्बरमहो जीयात् तवेदं वपुः ।

व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा-

जिहाह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ ३ ॥
 

 
तप्तेति । तप्तस्वर्णसवर्णे विलीनावस्थितपुरटसदृशे चूघूर्णती भ्रमिते अतिरू-

क्षे अक्षिणी यस्मिन्, सटाकेसरप्रोत्कम्पप्रनिकुम्बिताम्बरं प्रचलितस्कन्धरोमाञ्चला-

च्छादितगगनतलं, व्यात्तं विवृतं व्याप्तमहादरीसखं विस्तृतमहागुहासदृशं मुखं य
-
स्मिन्, खड्गदुग्राया वल्गन्त्याश्चलिताया महाजिह्वाया बहिर्निर्गमे दृश्यमानेन

सुमहता दंष्ट्रायुगेनोड्डामरमतिभीषणं तदिदं ते वपुर्जीयात् सर्वोत्कृष्टतया प्रका-

शताम् ॥ ३ ॥
 
.
 

 
उत्सर्पद्वलिभङ्गभीषणहनुं ह्रस्वस्थवीयस्तर -
 

ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्णम् ।

व्योमोल्लाङ्घिघनाघनोपमनप्रध्वान निर्धावित-

स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ ४॥
 

 
उत्सर्पदिति । भवतस्तन्नारसिंहं वपुर्नमामि । कीदृशम् उत्सर्पद्भिरट्टहासवि-

जृम्भणादिषूपर्युपरि गच्छद्भिर्वलिभङ्गैर्भीषणौ हनुप्रदेशौ यस्मिन्, ह्रस्वा स्थवीयस्तरा

अतिशयेन स्थूला ग्रीवा यस्मिन्, पीवराणां दोष्णां शतादुद्गतानां नखानां क्रूरै-

रंशुभिर्दूरोल्णमतिशयेन भयङ्करं, सजलजलधरध्वानवदतिभीषणसिंहनादैविंद्रार्वि-
द्रावि-
तवैरिनिकरम् ॥ ४ ॥
 

 
नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं

दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् ।

वीरो निर्गलितोऽथ खड्गफलके गृह्णन् विचित्रश्रमान्

व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ ५ ॥
 

 
नूनमिति । कपटवेषभृद्ःद् विष्णुरेवायं नूनं तर्कयामि, अमुं भ्रातृहणं

निहन्मीति निश्चित्य । अधृथास्त्वमग्रहीः । कराभ्यां निर्गलितो वीरो वीरम्मन्यो-