2023-03-23 10:36:13 by Padmavati
This page has been fully proofread once and needs a second look.
[स्कन्धः-७
कोपावेशेन चासकृदुच्चरन्नेव स्तम्भं प्रभिन्ते स्म ताडितवान् । अतः पश्चात्
स्तम्भभञ्जनानन्तरं तत्र किं जातमिति न हि सहसा वक्तुमीशोऽस्मि । कृपायुक्त
आत्मा यस्य, हे कृपात्मन् ! भक्तवत्सल ! विश्वात्मन् ! स्पष्टविश्वात्
विष्णो! जगद्व्यापनशील! हे पवनपुरवासिन् ! मां मृडय सुखय ॥ १० ॥
इति प्रह्लादचरिते नृसिंहाविर्भावप्रसङ्गवर्णनं चतुर्विंशं दशकम् ।
स्तम्भे घट्टयतो हिरण्यकशिपोः कर्
न्नाघूर्णज्जगदण्डकुण्डकुहरो घोरस्तवाभूद् रवः ।
श्रुत्वा यं किल दैत्यराजहृदये पूर्
कम्पः कश्चन सम्पपात चलितोऽप्यम्भोजभूर्विष्टपात् ॥ १ ॥
-
स्तम्भ इति । एवं स्तम्भभञ्जनानन्तरं प्रादुर्भवतस्तव घोरो रवः सिंह-
नादोऽभूत् । घोरत्वमेवाह
सम्भ्रान्तब्रह्माण्डकटाहान्तर्गतचराचरः । पूर्
ण्यकशिपोर्हृदये कश्चनानिर्देश्यरूपः कम्पः सम्पपात । अपिच अम्भोजभूर
विष्टपात् सत्यलोकाच्चलितः किमिदमकाण्डे कल्पापाय इति सम्भ्रान्तोऽभूत् ॥ १ ॥
दैत्ये दिक्षु विसृष्टचक्षुषि महासंरम्भिणि स्तम्भतः
सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ! ।
किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे
विस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ २ ॥
दैत्य इति । विसृष्टचक्षुषि सर्वतः सञ्चारितनयने सति न मृगात्मकं न
मनुजाकारं नरसिंहाकारं वपुः तद् दृष्ट्वा किं किमेतद् भीषणमद्भुतं चेति व्युद्भ्रा-
न्तचित्तेऽसुरे हिरण्यकशिपौ विस्फूर्जद्भिर्विकस्वरैर्धवलोग्ररोमभिः विकसत् प्रकाश-
मानं च वर्ष्म स्वरूपं यस्य स त्वं समाजृम्भथाः स्फुटनिर्गतोन्नतरूपोऽभूः॥ २ ॥
[^१]. 'त्मक । हे' क. पाठः
[^२]. 'त:' क. घ. पाठः
[^३]. 'रा' घ. पा