This page has been fully proofread once and needs a second look.

गिरीन्द्रावक्षिप्तोऽप्य[^१]हह परमात्मन्नयि विभो !
त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥ ७ ॥
 
स इति । परमात्मनि त्वयि न्यस्त आत्मा मनो यस्य । अथवात्मा जीवः,
ब्रह्मभूतत्वादित्यर्थः ॥ ७॥
 
ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको
गुरूक्त्या तद्गेहे किल वरुणपाशैस्तमरुणत् ।
गुरोश्चासान्निध्ये स पुनरनुगान् दैत्यतनयान्
भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥ ८ ॥
 
तत इति । तद्गेहे गुरुगृहे स प्रह्लादोऽनुगान् सखीन् भवद्भक्तेस्तत्त्वं
स्वरूपं कारणं फलं च परमं विज्ञानं ब्रह्मज्ञानमप्यशिषद् उपदिदेश ॥ ८ ॥
 
पिता शृण्वन् वालप्रकरमखिलं त्वत्स्तुतिपरं
रुषान्धः प्राहैनं कुलहतक ! कस्ते बलमिति ।
बलं मे वैकुण्ठस्तव च जगतां चापि स बलं
स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥ ९॥
 
पितेति । कुलहतक ! असुराधम ! ममाज्ञालङ्घने कस्ते बलमिति पिता
प्राह पप्रच्छ । वैकुण्ठो विष्णुर्मे बलं, न केवलं मम तवापि त्रिभुवनविजये स
विष्णुरेव बलं, जगतां जगद्वासिनामपि । किश्च सकलं त्रैलोक्यं स बिष्णुरेव,
न ततः पृथक् किञ्चिदप्यस्तीत्ययं प्रह्लादोऽगदीद् व्यक्तमुक्तवान् । धीरो निर्भयो
विद्वान् वा ॥ ९ ॥
 
तदनन्तरं हिरण्यकशिपोः प्रवृत्तिमाह--
 
अरे ! क्वासौ क्वासौ सकलजगदात्मा हरिरिति
प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः ।
अतः पश्चाद् विष्णो! न हि वदितुमीशोऽस्मि सहसा
कृपात्मन् ! विश्वात्मन् ! पवनपुरवासिन् ! मृडय माम् ॥ १० ॥
 
[^१]. 'ह' क. घ. पाठः