This page has been fully proofread once and needs a second look.

प्रह्लादचरितवर्णनम् ।
 
गिरीन्द्रावक्षिप्तोऽप्य[^१]हह परमात्मन्नयि विभो !
 

त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥ ७ ॥
 
दशकम् - २४]
 

 
स इति । परमात्मनि त्वायवयि न्यस्त आत्मा मनो यस्य । अथवात्मा जीवः,

ब्रह्मभूतत्वादित्यर्थः ॥ ७॥
 

 
ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको

गुरूक्त्या तद्द्वेगेहे किल वरुणपाशैस्तमरुणत् ।

गुरोधाश्चासान्निध्ये स पुनरनुगान् दैत्यतनयान्

भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥ ८ ॥
 
११७
 

 
तत इति । तदेद्गेहे गुरुगृहे स प्रहाह्लादोऽनुगान् सखीन् भवद्भक्तेस्तत्त्वं

स्वरूपं कारणं फलं च परमं विज्ञानं ब्रह्मज्ञानमप्यशिषद् उपदिदेश ॥ ८ ॥
 

 
पिता शृण्वन् वालप्रकरमखिलं त्वत्स्तुतिपरं

रुपाषान्धः प्राहैनं कुलहतक ! कस्ते बलमिति ।

लं मे बैवैकुण्ठस्तव च जगतां चापि स बलं
 

स एव त्रैलोक्यं सकलमिति धीरोऽयमगीगदीत् ॥ ९॥
 
"
 

 
पितेति । कुलहतक ! अनुसुराधम ! ममाज्ञालङ्घने कस्ते बलमिति पिता

प्राह पप्रच्छ । बैवैकुण्ठो विष्णुर्मे बलं, न केवलं मम तवापि त्रिभुवनविजये स

विष्णुरेव बलं, जगतां जगद्वासिनामपि । किश्च सकलं त्रैलोक्यं स बिष्णुरेव,

न ततः पृथक् किञ्चिदप्यस्तीत्ययं प्रह्लादोऽगदीद् व्यक्तमुक्तवान् । धीरो निर्भयो

विद्वान् वा ॥ ९ ॥
 

 
तदनन्तरं हिरण्यकशिपोः प्रवृत्तिमाह -
 
-
 
अरे ! काक्वासौ काक्वासौ सकलजगदात्मा हरिरिति

प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः ।

अतः पश्चाद् विष्णो! न हि वदितुमीशोऽस्मि सहसा

कृपात्मन् ! विश्वात्मन् ! पवनपुरवासिन् ! मृडय माम् ॥ १० ॥
 

 
[^
]. '' क. घ. पाठ:
 
ठः