This page has been fully proofread once and needs a second look.

" त्यान्त'
 
११६
 
नारायणीये
 
स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं

गतस्त्वद्भक्तानां वरद! परमोदाहरणताम् ॥ ४ ॥
 

 
तत इति । हिरण्यकशिपौ तपसे मन्दराद्रिं गतवति देवा असुरान् निर्जि
यान्तर्वलीं
-
यान्तर्वत्नीं
प्रह्लादमातरं कयाधुं नेतुमारब्धा नारदवचनाद् विसृज्य प्रति-

निवृत्ताः । देवर्षिस्तु तस्यै प्रह्लादमुद्दिश्य भक्तिज्ञानमार्गानुपदिदेश । अतोऽसौ

शिशुरपि त्वयीश्वरे रतिं प्रेमलक्षणां भक्तिम् ॥ ४ ॥
 

 
सुरारीणां हास्यं तव चरणदास्यं निजसुते

दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् ।

गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि-

त्यपाकुर्वन् सर्वेवं तव चरणभक्त्यैव ववृधे ॥ ५ ॥
 

 
सुरारीणामिति । गुरुभिः शुक्रपुत्राभ्यां शण्डामर्काभ्याम् । गुरुप्रोक्तं त्रिव-

र्गस्योपायं वार्तादण्डनीत्यादि भेददृष्ट्याश्रितत्वादिदमिदमभद्राय शरीरबन्धेन संसा-

राय भवति दृढं निश्चितमिति त्वद्भक्तेरन्यत् सर्वमपाकुर्वन् तव चरणभक्त्या

केवलया ववृधे। अस्य शरीरवृद्ध्यनुसारेण भक्तिरपि ववृध इत्यर्थः ॥ ५ ॥
 

 
अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये
भवद्भक्ति

भवद्भक्तिं
वर्यामभिगदति पर्याकुलधृतिः ।

गुरुभ्यो रोपिषित्वा सहजमतिरस्येत्यभिविन्

वधोपायानस्मिन् व्यतनुत भवत्पादशरणे ॥ ६ ॥
 
[स्कन्धः- ७
 

 
अधीतेष्विति । अथ कदाचित् पित्रा त्वयाधीतेषु मध्ये किं श्रेष्ठमिति

तनये प्रह्लादे पृष्टे सति भवद्भक्तिं वर्यायां श्रेष्ठामभिगदति च सति पर्याकुला

चलिता धृतिर्यस्मात् स तथा अस्य मतिः सहजेति गुरुमुखादभिविदन् अस्मिन्

प्रह्लादे वधोपायान् व्यतनुत ॥ ६ ॥
 

 
वधोपायानाह---
 

 
स शूलैराविद्धः सुबहु मथितो दिग्गजगणै-

र्
महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः ।