2023-02-16 08:52:16 by ambuda-bot
This page has not been fully proofread.
अथ सप्तमस्कन्धपरिच्छेदः ।
प्राक्कर्मवासनाभेदा ऊतयः सप्तमोदिताः ।
प्रह्लाद पितृदृष्टान्तैर्लक्ष्यन्तेऽथ हरेर्गुणाः ॥
अथ प्रह्लादचरितवर्णनाय तदुत्पत्तेः पूर्वं तत्पितुर्हिरण्यकशिपोर्भ गवद्विद्वे-
बादिकं प्रस्तौति ---
हिरण्याक्षे पोत्रिप्रवरवपुषा देव ! भवता
हते शोकको धग्लपिततिरेतस्य सहजः ।
हिरण्यप्रारम्भः कशिपुरमरारातिसदसि
प्रतिज्ञामातेने तव किल वधार्थ मुररिपो ! ॥ १ ॥
विधातारं घोरं स खलु तपसित्वा नचिरतः
पुरः साक्षात्कुर्वन् सुरनरमृगाद्यैर निधनम् ।
वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं
परिक्षुन्द निन्द्रादहरत दिवं त्वामगणयन् ॥ २ ॥
विधातारमिति । परिक्षुन्दन् चूर्णांकुर्वन् ॥ २ ॥
निहन्तुं त्वां भूयस्तव पद्मवाप्तस्य च रिपो-
र्वहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा ।
नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन्
भिया यातं मत्वा स खलु जितकाशी निववृते ॥ ३ ॥
निहन्तुमिति । तव पदं वैकुण्ठमवाप्तस्य प्राप्तस्य रिपोर्हिरण्यकशिपोर्बहि-
ईष्टेर्मांसचक्षुषः सकाशात् त्वं सूक्ष्मवपुषा ज्ञानदृष्टिरहितस्यास्य हृदये अन्तर्दधिथ
अन्तर्हितवान् । ततस्त्वां भीतं मत्वोच्चैर्नदन् सिंहनादं कुर्वन् तत्र वैकुण्ठलोके
अखिलभुवनान्ते चतुर्दशसु लोकेषु जितकाशी जितंमन्यो निववृते निवृत्तोऽभूत् ॥
ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ
मुनेर्वीणापाणेरधिगतभवद्भक्तिमहिमा ।
१. 'मधुरि' क. घ. पाठ: